________________
२१४ ]
[ तत्त्वबोधिनी विवृतिविभूषितम्
ज्ञानविरोधिभावात्मकम् ' अहमज्ञः' इत्यनुभवात् " वेदात्मशक्ति
मार्थिकसद्रूपम्, अहमज्ञः, सुखमहमस्वाप्सम् न किञ्चिदवेदिषम् ' इत्यादिप्रतीत्या प्रतीयमानमिदं कदाचिदपि यन्न प्रतीयते तदसदित्येवं सर्वदाप्रतीयमानत्ववैकल्यलक्षणासत्त्वराहित्यान्नासद्रूपमपीत्येवं सदसद्भयां वक्तुमशक्यत्वादनिर्वचनीयमित्याह - सदसद्द्भ्यामनिर्वचनीयमिति । त्रिगुणात्मकमिति - सत्त्वरजस्तमोगुणात्मकमित्यर्थः । यथा हि आलोकविरोधिनस्तमसो भावरूपत्वमेव, न त्वालोकाभावस्तमः, तथा ज्ञानविरोधिनोऽज्ञानस्य भावरूपत्वमेव न तु ज्ञानाभावोऽज्ञानमित्याहज्ञानविराधिभावात्मकमिति- अभावस्याधिकरणस्वरूपभिन्नस्य तुच्छत्वेन कर्याच विरोधित्वासम्भवाज्ज्ञानविरोधित्वान्यथानुपपत्त्याऽज्ञानस्य भावरूपत्वमेवाभ्युपेयमित्याशयः । भावरूपत्वेऽज्ञानेऽनुभवं श्रुति च प्रमाणतयोपदर्शयति- अहमज्ञ इत्यनुभवादिति । अत्र 'अज्ञः' इत्यस्य ज्ञानाभाववानित्यर्था न सम्भवति, ' अहमज्ञः' इत्यस्यापि ज्ञानत्वेन तद्रूपप्रतियोगिनः सत्त्वे ज्ञानसामान्याभावस्यासत्तया ज्ञानाभाववानहमित्यनुभवस्यासम्भवात् एवमभावज्ञाने प्रतियोगिज्ञानस्य कारणत्वेन ज्ञानरूपप्रतियोगिना ज्ञाने सत्येव ज्ञानाभावज्ञानमित्यस्याभ्युपगन्तव्यत्वेन तद्रूपप्रतिबन्धकसद्भावादपि ज्ञानाभावज्ञानासम्भवात्, पतेन 'यत्कि ञ्चिज्ज्ञानस्याभाव एव ज्ञानाभावतया विवक्षितः' इत्युक्तिरपि निरस्ता, तस्यापि यत्किञ्चिज्ज्ञानं प्रतियोगि, तज्ज्ञानस्यावश्यकतया तस्यैवात्मरूपधर्मि विषयकस्य तद्वत्ताज्ञानविधया प्रतिबन्धकस्य सद्भावतो. यत्किञ्चिज्ज्ञानाभावविषयकज्ञानस्याप्यसम्भवात्, अपि च सर्वविषयक ज्ञानवतः केवलिनोऽपि मतिज्ञानादिलक्षणयत्किञ्चिज्ज्ञानं नास्तीतितदभावमादाय ' अहमज्ञः' इति ज्ञानं तस्यापि स्यात्, एवं सुषुप्तिकालेऽनुभूतस्याज्ञानस्य सुषुप्त्यनन्तरं स्मृतिरुपजायते- 'सुखमहमस्वासं न किञ्चिदवेदिषम् ' इति, न च सुषुप्त्यवस्थायां प्रतियोगि• ज्ञानाभावतो ज्ञानाभावानुभवसम्भवः, न चानुभवमन्तरेण स्मृतिरुत्पतुमीष्टे इति तदानीं भावरूपस्यैवाज्ञानस्य साक्षिवेद्यस्यानुभव
>
•