________________
भनेकान्तव्यवस्थाप्रकरणम् ]
[ २१३ मुद्भूतम् , तन्मते हि सच्चिदानन्दाऽद्वयं ब्रह्मैव वस्तु, अज्ञानादिसकलजडसमूहोऽवस्तु । अज्ञानं तु सदसद्भयादनिर्वचनीयं त्रिगुणात्मकं
सङ्ग्रहनयतो ब्रह्माऽद्वैतवादिवेदान्तदर्शनं प्रवृत्तमित्यावेदयतिएतन्नयमाश्रित्येति-सङ्कहनयमवलम्ब्येत्यर्थः। चिदानन्दैकरसेति-ज्ञान-सुखैकरूपेत्यर्थः, 'सत्यं ज्ञानमनन्तं ब्रह्म' [तैत्तिरोपनिषद्, २, १, १,] इत्यनेन ब्रह्मणः सञ्चित्स्वरूपत्वम् 'आनन्दं ब्रह्म' [ बृहदारण्यकोपनिषद् , ३, ९, २८] इत्यनेनानन्दस्वरूपत्वम् , आनन्दशब्दस्य नित्यपुलिङ्गत्वेऽपि छान्दसत्वानपुंसकलिङ्गत्वं सुखस्वरूपत्वेऽपि न विरुद्धम् , 'एकमेवाऽद्वितीयं ब्रह्म नेह नानाऽस्ति किञ्चन' [ अध्या. त्मोपनिषद्, ६३] इत्यादिश्रुत्या चाऽद्वैतस्वरूपत्वं ब्रह्मणः सिद्धम् , यथा च 'सन् घटः, सन् पटः' इत्यादिप्रतीत्या सद्रूपत्वं विश्वस्य तथा 'इष्टो घटः, इष्ट पटः' इत्यादिप्रतीत्येष्टस्यानन्दस्य स्वरूपत्वम् , तथा 'ज्ञातो घटः, शातः पटः' इत्यादिप्रतीत्या ज्ञानस्वरूपत्वम् , सञ्चिदानन्दानां चाद्वितीयब्रह्मस्वरूपत्वं तदैव भवेद् यदि तेषामप्यैक्यमेव स्यात् , असद्भिन्नत्वं सत्त्वम् , अज्ञानभिन्नत्वं ज्ञानत्वम् , अनानन्दभिन्नत्वमानन्दत्वमित्येवं ब्रह्मणि सत्त्वादयस्त्रयोऽपि धर्मा अभावरूपा एव, अभावश्चाधिकरणस्वरूप एवेति नोक्तधर्मत्रयमादाय द्वैतापत्तिरपीति । वेदान्तसिद्धान्तमुद्घाटयति- तन्मते हीति। हि यतः। तन्मवे वेदान्तमते। ‘ब्रह्मत्र' इत्येवकारेण ब्रह्ममात्रस्य वस्तुत्वेऽवधृते तवयतिरिक्तस्याऽशेषस्यावस्तुत्वमर्थात् प्राप्तमपि स्पष्टप्रतिपत्तये आहअज्ञानादीति। अज्ञानमत्र न ज्ञानाभावः, किन्तु ज्ञानविरोधिभावस्वरूप मेव तदित्याह- प्रज्ञानं त्विति । अज्ञानं यदि पारमार्थिकसद्रूपं स्यात् तदा कालत्रयेऽपि बाधितं न स्यात् । इदं त्वखण्डाकारब्रह्मस्वरूप साक्षात्कारात्मकनिर्विकल्पकज्ञानेन 'तत् त्वमसि' [ छान्दोग्योपनिषद्, ६, ८, ७] इत्यादिमहावाक्यजनितेनोत्तरकालं बाध्यत इति न पार