Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमोद्धारककृतिसन्दोहे
30
विचारः
॥२॥
-
-3
वाङ्मात्रतो भवेत् । श्लिष्टतामुभयोब्रूयात्तद्योगः सार्थको मुखे ॥१५॥ अतीन्द्रियाणामर्थानां, शिष्टानां स्वल्प- 11 वेदिभिः । न प्रामाण्यं ततो वाच्यं, सर्व तिह्यमादितः ॥१६॥ आनन्तर्येण परतो, द्विधा फलप्रदर्शनात् । योगस्य वाच्यताऽऽरम्भे-ऽन्यथोत्कृष्टे फलेऽत्ययः ॥१७॥ न चेत्साध्यमुदीर्येत, विभिन्नरुचयो जनाः । स्वेष्टसिद्वथै क्षमं मत्वा, कुर्युः किं श्रुतियोजनाः ? ॥१८॥ मते जने प्यनेकानि, तत्त्वानि स्वेष्टसिद्धये । तद्वाच्यमादितो । वाच्यं, श्रोतृणां बुद्धिशुद्धये ॥१९॥ शास्त्रकारा महात्मानो, भाषन्ते वितथं नहि । क्वचित्तदन्यथाभावे नाविश्रम्भो महात्मसु ॥२०॥ प्रतिशास्त्रमुदीर्यन्ते, चत्वार्येतानि सूरिभिः । कृतिक्रममपेक्षन्ते, श्रोतारो नापि देशकाः ॥२१॥ मङ्गले विहिते ज्ञात्रा,सामर्थ्यात् शेषमूह्यते । तथापि स्पष्टबोधार्थ, शेषत्रयप्रसाधनम् ॥२२॥ श्रोतृणां न समा बुद्धिः, समेषां कर्मणां यतः । शमश्चित्रस्ततःसर्वे, नैवं चिन्तयितुं क्षमाः ॥२३॥ कर्ता श्रोता च जैनोऽत्र, न च स्वच्छन्दवाक्पदं । भवानुबन्धं ब्रूयान्न, न चैकनयसंश्रितम् ॥२४॥ क्वचिद् शास्त्रकृतो ग्रन्थे, लक्षीकृत्य बुधान् परान् । आचख्युमङ्गलं होकं, शेषजिज्ञापयिषया ॥२५॥ जिनेन्द्रा देशनारम्भे, कृतार्था अपि पर्षदि । लोकप्रवृत्तये ख्यान्ति, तीर्थाय नम इत्यपि ॥२६॥ वक्ता जिनो गणाधाराः, श्रोतारो बीजबुद्धयः । शासनोदितये ब्रूते, वस्तु सर्वनयाश्रितम् ॥२७॥ श्रुतं भगवता ख्यात-मित्यूचाना गणाधिपाः। मङ्गलं चक्रिरे स्पष्टं, निष्ठास्थेमाव्ययप्रदम् ॥२८॥ परमेष्ठिनमस्कार आद्यावश्यकदेशने । सुकर्तव्यतयाऽवश्यं, नियुक्तौ देशितस्ततः ॥२९॥ शेषेष्वावश्यकेश्वेवं, सूत्रेषु क्रियते बुधैः । मङ्गलस्य कृतिः कार्या, ध्रुवं तन्नात्र संशयः ॥३०॥ आद्याङ्गचूर्णिकृत्याह, श्रुतं मे प्रमुखं वचः । अधिकारतया तस्मात्, शेषाङ्गादौ वचस्तकत् ॥३१॥ यत्र स्पष्ट उपोद्घातो नुवृत्तिस्तस्य ना भवेत् । अपेक्षातोऽधिकारो यत्, सर्वन्यायविदां मत: ॥३२॥ एतत्सूत्राण्यपेक्ष्याक्त-मर्थमाश्रित्य मङ्गलम् । उपोद्घातस्य नियुक्तौ, ज्ञानपञ्चककीर्तनम् ॥३३॥ तथापि प्रतिनियु- 11 क्ति पार्थक्यात् मङ्गलादरः । तत्कृतां यद्विशेषेण, तद्वाच्यं तत्र कथ्यते ॥३४॥ वाङ्मयेषु न शेषेषु, तथा
र
म

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 ... 104