Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 30
________________ ॥२२॥ अचितस्कन्धगोऽन्त्यो य:, संयोगः स न पुद्गलः ॥५॥ यथाप्रवृत्तकरणं, योगा मिथ्यात्वमक्षगं । ज्ञानमोघेन आगमो- सर्वेऽमी, हेतवोऽन्त्या न पौद्गलाः ॥६॥ अत एवैवशब्दोजासाम्प्रतस्त्विति सूरिभिः । वृत्तौ स्पष्टतयाऽऽ- परमाणुद्धारक- ख्यात-मत्रेति च मतं पदम् ॥७॥ अत्रशब्देन तैरुक्ता. पुद्गलानामधिश्रितिः । स्युरन्यत्रान्यथान | पञ्चविं. कृतिनात्र पौद्गले ॥८॥ तच्छब्दोऽपेक्षते शब्दं, यदितीत्थं प्रमीयते । यदन्त्यं कारणं स्कन्धे, तत्परमाणुरुच्यते शतिका सन्दोहे ॥९॥ वादोज परिणामस्य, तेन द्वथणुकसंहरात् । उद्भवः परमागोः स्यान्, न कार्य कारणात्ययात् ॥१०॥ महास्कन्धेऽपि सोऽस्त्येव, परिणामोऽपरस्तदा । भेदे द्वयणुक सङ्घादेरन्त्योऽणुः कारणं पृथक् ॥११॥ सामान्येनाधिकारोवा-जीवानां प्रथमः कृतः । पृथकर्तुमधीकार-मत्रेत्यावश्यकं पदम् ॥१२॥ जगत्यसौ न कालोऽस्ति, यस्मिन् सर्वेऽणव: पृथक् । अन्त्यावस्थां गताः स्युर्यदेतल्लक्षणविग्रहाः ॥१३॥ आलोच्येत्याहुराचार्याः, यत् सूक्ष्म पौद्गलं दलं । स सूक्ष्मः परमाणुः स्यात्, सम्बद्धोऽपि स्वरूपतः ॥१४॥ सूक्ष्मो नापेक्षिको ग्राह्य-स्तस्य बादरभावत: । अन्त्यः सूक्ष्मः पुद्गलस्तु, कश्चिन्नाणोः पो भुवि ॥१५।। यथाऽन्त्यं कारणं बद्धे, न गम्यं न पृथक् समे । अणवो न विभक्ताः स्युर्जातु सूक्ष्मत्वमाययुः ॥१६॥ आशङ्कयेति तृतीयं, लक्षणं नित्य ईरितं । परिणामेषु सर्वेषु, पृथक्त्वे च सदा भवेत् ॥१७॥ जैनो वादः परीणामेऽतोऽणुः स्कन्धेष्वपीष्यते । कथञ्चित्परिणामश्च, कार्य हेतुं च समन्वयेत् ॥१८॥ नाशान्न कारणानां स्यान्न चानाशात्तु सर्वथा । वादेज परिणामस्य, नाशा नाशावुभौ मतौ ॥१९॥ यथा व्युतः पटस्तन्तु समवायेन कारुभि: । करोति पटकार्याणि, तन्तुकार्य न रुध्यते ॥२०॥ अन्त्यकारणता सौक्षय, नित्यत्वं च श्रितं ह्यणून् । श्रद्धानुसारिणः ।। श्रोतॄन् प्रतीदं लक्षणत्रयम् ॥२१।। तर्काणुसारिणः श्रित्वाऽऽचार्यास्तुर्य जगुः पां। लक्षगं कार्यलिङ्गेति, । ||२२|| परमाणोर्विनिश्चितम् ॥२२॥ आन्वीक्षिकी श्रितो विज्ञोऽनुमायादृष्टमूहते । भूमिगृहाद् द्विजं क्रष्टुं, नेशा विद्या| र्थिनः परे ॥२३॥ नाणूनां साधनं , कार्यलिङ्गात् परं याः । हेतुहेतुर्महद्रव्ये, तर्के प्रोच्याणुरुच्यते ॥२४॥

Loading...

Page Navigation
1 ... 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104