Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
आगमां
द्वारककृति
सन्दोहे
॥५६॥
SSSSS
रोद्धुमिति । किञ्च-विचारणीयमेतदपि तै: - यत् शास्त्रकाराः मासाधिक्यवतः सर्वानपि संवत्सरानुद्दिश्याषाढ्या विंशतिरात्रातिक्रमे भवता सांवत्सरिकरूपतयाभिप्रेतां गृहिज्ञातपर्युषणां कर्त्तुमादिशन्ति तेषां तत्रभवतां शास्त्रकृतामभिप्रायेण पौषस्याषाढस्य वा वृद्धौ वर्षमभिवर्धिताख्यं तत्र चाषाढया विंशत्या होरात्राणां गृहिज्ञातपर्युषणायाः कृतिश्च भवद्भिस्तु सांवत्सरिकस्य कृतौ सोक्तिरुरीकृता, उरीकृत्यापि न सर्वेष्वभिवर्धतेनूक्तमपि आचर्यते, शेषेषु शेषमासाधिक्येनाभिवर्धितसञ्ज्ञां प्राप्तेषु वर्षेषु विंशत्या सांवत्सरिकस्याकरणात् । किञ्चाषाढ्याः प्राग्जातयोर्मासयोर्व्यपेक्ष्य 'ग्रीष्मे गत' इति वर्षावासात् प्राग्जातमधिकं मासं समुद्दिश्य अर्वाग्वया भावाद् विंशत्या पर्युषणा आज्ञायि भगवद्भिरधिकरणादिवर्जनार्थ, खरतरसन्तानीयैस्तु वर्षावासकाल एवाधिके तद्वाक्यमालम्बितं, तदेतत् तत्त्वज्ञस्य नाश्चर्यकरं स्यादिति ? | किञ्च पर्युषणाया अवस्थानरूपायाः कृतिस्तूत्सर्गादापाढयामेव । भाद्रपदामान्तेषु शेषेषु क्रियमाणा सापवादिकी, भाद्रपद शुक्लपञ्चम्यां तु क्रियमाणा सा परमापवादिकी । एवं पर्युषणायाः करणे भेदत्रयी, सांवत्सरिके त्वेक एव भाद्रपद शुक्लपञ्चम्यां विधानलक्षणो मार्गः । किञ्च - पर्युषणायामवस्थानलक्षणायां निर्णयकालादुदितिकालभेदः, गृहिज्ञातपर्युषणायामुदितिमात्रं न तु कृतेर्नियमः, सांवत्सरिके तु न तादृशं वैविध्यं तत्र क्रियोदित्योः समकमेव करणादिति । एवं सत्यपि महति भेदे गृहिज्ञातपर्युषणा सांवत्सरिकं वा गृहिज्ञातपर्युषणारूपं समदिनभवननियमवद्वा द्वयमेतदिति खरतरैः ख्यायमानं केषां मध्ये ख्यातिमाप्नुयात् ?, तत्तु सुज्ञानां विदितचरमेवेति । ननु पञ्चम्या आगमोक्तत्वाच्चतुर्थ्यां सांवत्सरिकमावयोरयुक्तमिति चेत् । न, जीतव्यवहारस्य 'वत्तणुवत्तपवत्तो' इत्यादिलक्षणस्यागमोक्तत्वादेव । ननु 'जीएणं ववहरइ' तिवचनात् प्रायश्चित्ते एव जीतव्यवहारस्योक्तिः, संहननधृत्यादिहानीनां तत्रैवालम्बनत्वादिति । सत्यम्,
1
ज्ञात
पर्युषणा
॥५१॥

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104