Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 100
________________ आगमो. द्धारककृतिसन्दोहे ॥९२॥ सरिभिः श्रीजीवाभिगमप्रज्ञापनावृत्त्योः संहननमाश्रित्य स्पष्टं मूत्रिता। 'अट्ठमीचउद्दसीसु प्रभावइदेवी भत्तिराएण । सयमेव राओ णट्टोवहारं करेई', त्ति दृष्ट्वापि निशीथोल्लेखं कः खलु न श्रद्दध्याच्छादो रात्रावपि जिनमन्दिरे रात्रिचत्य ललनानां निःसंशयं प्रवेश ? । किञ्च-तावय दिवसावसाणे सूरो अत्थं समल्लीणो ॥१॥णयरीए मज्झयारे II 'गमनम् दिट्ठ चिय निणहरं मणभिरामं । हरिसिय रोमंचइया तत्थ पविट्ठा परमतुट्ठा ॥२॥ थोऊण अचिऊण य जिणपडिमाओ परेण भावेण' । इति विमलाचार्यकृतपद्मचरित्रे प्राचीनतरमेनं पाठं दृष्ट्वापि खरः शर्करामिव मक्षिका चन्दनमिव च खरतरमोहमदिरामत्ता जिनालयप्रवेशं वैष्णवमन्दिरमिव नियतदर्शनपूजायोग्यमिति मन्वानाः सर्वकालदर्शनपूजायोग्यं जिनमन्दिरं न श्रद्दधते। 'तत्थेव जिणहरे ते रत्तिं गमिऊण अरुणवेलाए'। त्ति। एवं ज्ञात्वाऽपि सिद्धान्तचरित्रयुक्तिभिः सिद्धं रात्रौ चैत्यं गत्वा वन्दनं सपूज कः खल्वागमानुसारिमतिकः खरवचनानां खरतराणां जिनदत्तोपज्ञं रात्रौ चैत्यगमन निषेधरूपं कर्णकटु भवव्रततिवृद्धिवारिदायमानं श्रोतुमप्युत्सहेत ? । ननु साध्वालये रात्रौं गम्यते स्थीयते च न वेति ?, गम्यते स्थीयते च, साधसमीपे सामायिकावश्यकपौषधक्रियाणां समादरोक्तरिति चेत् । चैत्यगृहेऽपि ता उक्ता एव । ननु तत्राशातनाप्रसङ्ग इतिचेत् । सत्यं, वर्जने विधिः। 'दुभिगंधमलस्सावी तणूरप्पेसऽण्हाणि' तिवचनात् स्पष्टो निषेधः अवस्थानस्य चेत । सत्यं, साधव एवंविधा. न गृहिणः, ते च नैव तथा. प्रत्युत निश्रितचैत्यसमवसरणविध्युक्तिप्रतिपादकः सिद्धान्तः। किंचाधिवासनादिष्ववनामनार्थमनेकसधवनारीणां निशायामागमनं श्रीहरिभद्रसूर्यादिभिरुक्तं । भवताऽपि तत्कार्यत एव ॥ इति रात्रिचैत्यगमनम् ।

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104