Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 46
________________ आगमो- द्वार ककृतिसन्दोहे ॥३८॥ अतिक्रान्तोऽनागतश्चेति, मेदौ द्वौ श्रुतवर्णितौ ॥११॥ अतः कल्पान्त्यस्त्रेपि, सांवत्सरिकमीरितम् । भिन्नं ॥ व्यवस्थितेः सूत्रात् , फलं तूपहृतौ पुनः ॥९२॥ अत एवोदितं कल्पनिरुक्तौ पूर्वसरिभिः । भिन्नगच्छभवै- | सांवत्सर्यत् स्याद् , वार्षिकं भाद्रशुक्लगम् ॥१३॥ अभिगृहीतवासः स्यान् , मुनीनां नियतेऽहनि । न परं वार्षिकं ।। रिकनिः र्णयः कार्य, नियत एव घस्रके ॥९४॥ एवं च ये समाचख्यु भिगृहीतवासरात् । भिन्नो वार्षिककृत्यस्य, वासरस्ते पराकृताः ॥९५॥ सामग्रीसम्भवे यस्मा-दापाढे पूर्णिमादिने । गृहिझातं परिवसेन् , न चेत् पञ्चदिनी वदेत् ॥९६॥ एवं त्वदुक्तनीत्या स्यादापाढ्यामेव वार्षिकम् । केषाश्चिदपरेषां तु, पर्वस्वन्येषु तद् भवेत् ॥९७॥ कल्पस्य कर्षणं वार-द्वयमष्टमयोजनं । वर्षावासे वत्सरे च, तेन न भ्रमणं विदः ॥९८॥ इत्थं भव्यजनावबोधविधये सिद्धान्तयुक्त्यन्वितं, श्रीसांवत्सरिकप्रतिक्रमगतं वाच्यं विविच्योदितम् । श्रुत्वा जैनमतानुगा विधिकृतौ बद्धादराः संततं, सन्तः सन्तु सदा प्रसन्ममनसः सांवत्सरिकोयताः ॥१९॥ इति सांवत्सरिकनिर्णयः॥ . पर्युषणारूपम् (१६) नत्वा नरेन्द्रसंघातं, महावीरं जिनोत्तमं, ब्रुवे पर्युषणारूपं, भव्यानां हितकाम्यया ॥१॥ स्थानाङ्ग दशमे स्थानेष्टमं पर्युषणादिमं । कल्पाध्ययनमुक्तं तत् , पदयुग्माङ्किताभिधा ॥२॥ परं पदद्वये नाम्नि, प्रागुत्तरपदद्वयं । लुप्त्वाऽभिधीयते नाम, तदभिधाद्वयं भवेत् ॥३॥ जहा कप्पेत्ति तुर्येऽङ्गे, समवसरणे मतम् । परं पर्युषणाया नेतीत्थं पर्युषणाश्रुते ॥४॥ एवं च पञ्चकल्पादौ, दशधाचारवर्णने । पर्युषणादिकल्पाला, या साऽखण्डाऽभिधा 'भवेत् ॥५॥ स्यात्तत्त्वभेदपर्यायैर्व्याख्या तत्रापि पर्ययान् । आश्रित्य तत्त्वमेदौ त दादौ पर्यायवर्णनम् ॥६॥ पर्युषणायाः पर्यायाः, पर्यायस्थापनादिकाः । षट् साधूनां स्यात् पर्यायः, तत्र पर्युषणादिनात् ॥७॥ ग्रीष्महेमन्तिकाः सर्वे, त्यज्यन्ते पर्ययाः पुनः। वर्षीया अत्र गृह्यन्ते, प्रकृतिकाभिधा ततः ॥८॥ षण्णामपि IMI ॥३८॥

Loading...

Page Navigation
1 ... 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104