Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri, 
Publisher: Shantichandra C Zaveri

View full book text
Previous | Next

Page 56
________________ आगमो ज्ञातपयुषणा द्धारककृति सन्दोहे ॥४८॥ ___ननु युगप्रधानॆभगवद्भिः कालकाचा : राजविज्ञप्त्या पर्युषणा चतुर्थी कृतेत्यस्याविवादास्पदत्वे न पाश्चात्यैः ।। कथं सा परावर्तिता ?, न हि शासने जैने महाप्रभाववता केनापि किश्चिदाचरितमेतावता सर्वैस्तत्कालीनैः पाश्चात्यैरपि तथा कार्यमिति नियमः, श्रीस्थूलभद्रवद्वेश्यावेश्मावस्थानप्रसङ्गादिति चेत् । सत्यं, परं सांवत्सरिकादीनां स्वरूपं तावत् कलहकषायनिवारणा । अत एवानुवत्तमानेऽपि पर्युषणाधिकारे भाष्यकृद्भिः 'अहिगरणकसायाणं संवच्छरिए विओसवणे'त्ति । न तावदधिकरणादित्यागः सांवत्सरिकस्वरूपतया निरूप्य विरता:, किन्तु पूर्वसंवत्सररात्रेरारभ्याक्षामितानां प्रायश्चित्तमपि निर्दिष्टं मूलरूपमद्य । किञ्च संवत्सरदिनकृतानामधिकरणानामक्षामणे सांवत्सरिककायोत्सर्गेण मूलप्रायश्चित्तमादिष्टं, आदिष्टं च तस्य गणान्निष्काशनं, तत्कायोत्सर्गकालकृताक्षामितापराधे तु तत्कालमेव मूलप्रायश्चित्तमादिष्टं दाने । तथा च भाष्यकारा आहुः - 'संवच्छरमुस्सग्गे कयंमि मूलं न सेसाईति । एवं स्वरूपत्वाच्च सांवत्सरिकस्यानुक्तानां च पाक्षिकादीनां च व्यवस्थेयं व्यावह.रिकी यदुतापराधादीनां पाक्षिकान्तमक्षामणं चेत् तद्वन्तः प्रत्याख्यानावरणोदयवन्तः चातुर्मासिकान्तमप्रत्याख्यानोदयवन्त: सांवत्सरिकान्तमनन्तानुबन्ध्युदयवन्तश्च । अनन्तानुबन्ध्युदयवतां 'अनन्तान्यनुबध्नन्ति, यतो जन्मानि भूतये' इतिवचनादनुक्षणमनन्तसंसारोपार्जकत्वनियमः। एतेन सांवत्सरिकस्याधिकरणक्षामणादिस्वरूपवदनन्तसंसारासाधारणहेत्वनन्तानुबन्ध्यभावप्रायश्चिंगान्तापनिविगमौ फलतयोक्ताववसेयौ । न चेमौ गृहिज्ञातपर्युषणायामli. शंतोऽपि । एवं स्वरूपफलत्वाच्च सांवत्सरिकस्य शासनानुसारिभिः सहैव करणमनुष्ठेयमनुष्ठीयतेपि च । तथा च राज्ञो लोकानुवृत्या पञ्चम्यां सांवत्सरिककार्यस्यानुष्ठानमावश्यकं, ततः तिथिपरावर्ताय विज्ञप्तिः, अन्यथा युगप्रधानाचार्याणां तत्रैव क्षेत्रे विद्यमानेऽप्यसाहचर्यान्न सानिध्येन स्यादाराधना, नृपानुग्रहायाचार्यस्य तत्सान्निध्याथ तत्क्षेत्रीयस्य सकलसङ्घय तत्समानकालीनाराधनाहेतोरेव सकलशासनस्य चतुर्थ्यां पर्युषणायाः || करणमौचितिपदवीमध्यास्त । - ननु भवतु तद्वर्षे तथा, परं पाश्चात्यवर्षेषु तत्परम्परागतानामपरेषां च ।

Loading...

Page Navigation
1 ... 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104