Book Title: Agamoddharak Kruti Sandohe Part 02
Author(s): Manikyasagarsuri,
Publisher: Shantichandra C Zaveri
View full book text
________________
बात
आगमोद्धारककृति
सन्दोहे ।
॥४६॥
-
रिष्यत्येव भवतामधिकमासस्य गणनायां विद्यमानः कदाग्रहः । निवृत्तं च तस्मिन्नैव भवान् श्रावणिकत्वाश्रयणेन || पर्युषणापर्वणो भेदविधौ तत्परतामाधास्यति । अन्यच्च भगवन्तो युगप्रधानाः श्रीकालकाचार्याः वर्तमानशासनाधीश्वराः श्रीमलधारगच्छीयश्रीहेमचन्द्रसूर्यादिवचनात् श्रीवीरभगवतो निर्वाणात् त्रिपञ्चाशदधिकचतुःशत्यां, Hपर्युषणा तीर्थोद्गारनाम्ना प्रघोष्यमाणगाथामाश्रित्य तत एवाशीत्यधिकनवशत्यां, श्रीपयुषणाकल्पगतं वाचनान्तरीयपुस्तकारूढिकालस्य पर्युषणातिथिपरावत्तहेतुत्वेनारोपितं वचनमाश्रित्य त्रिनवत्यधिकनवशत्यां पर्युषणातिथेः परावर्त चक्रुरिति गीयते । त्रिष्वपि मतेषु तद्वर्षमाभिवर्धितं, यतः संख्यासु पञ्चभिभक्तास्वेतासु शून्यं त्रयथावशिष्यन्ते । एवं च सिद्ध तस्मिन् परावर्तनवर्षे श्रीकालकाचाययुगप्रधानैर्यद्भाद्रपदशुक्ले पञ्चम्यां सांवत्सरिकपर्युष्णाकृतये श्रीसङ्घायादेशो दत्तः, परमश्रावकशातवाहनराज्ञोऽनुरोधेन च चतुर्थी सांवत्सरिकपर्युषणां चक्रुः,। तत्सर्वमपि खरतराणां श्रावणिकानां मते नांशतोऽपि घटामटाट्यते । एवं चाधिकमासस्य गणनायामयुक्तत्वे सिद्धे यस्व कस्यापि मासस्य भवतु वृद्धिः, परं सा मासकल्पचातुर्मासिकसांवत्सरिकप्रमुखेपेक्षितुमेव योग्या । योग्यं च सर्वेष्वपि समानरीत्या भाद्रपदशुक्ल पञ्चम्यां श्रीकालकाचार्यादेशाचतुर्थ्यामेव च सांवत्सरिकपर्युषणाकृत्यकरणं । न च || श्रावणिकः खरतरैरपि तिथिवृद्धिहान्योः पञ्चदशदिनात्मकपक्षनिवृत्तं पाक्षिकं चतुर्दशी विहायान्यदा क्रियते, इति किं शोभास्पदमार्हतशासनमङ्गीकुर्वाणानामिदनजरतीयमनुष्ठानमिति ? । ननु भवद्भिरारब्ध गृहिज्ञातपर्युषणयोभिन्नकालकर्तव्यतामभिवर्धिते साधयितुं, तत्र गृहिज्ञातपर्युषणायामधिकमासस्य संख्यानं वृष्टथपेक्षितकृष्यादि क्रियाप्रत्ययिकमहं न तु पाक्षिकमासकल्पचातुर्मासिकसांवत्सरिकादिष्वित्यन्यान्यशास्त्रवचनैरनुमानप्रधानः साधितं, परं गृहिज्ञातपर्युषणायाः सांवत्सरिकस्य साक्षाद्भदप्रतिपादनपरमनुमानहेतुकं किमिति शास्त्रवचनं न दश्यते ? इति चेत् । सत्य, गृहिज्ञातपशुपणाया हेत्वादिदर्शने सांवत्सरिकभिन्नतायाः स्वभावसिः , परं । ॥४६॥ भवदाकाङ्क्षा चेत्तथाविधा, तर्हि तत्समाध्यर्थमपि क्रियते तत्र यत्नः। तत्र प्रथमं सांवत्सरिकं संवत्सरनिवृत्तं, ।।
---
-
-
--

Page Navigation
1 ... 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104