SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ बात आगमोद्धारककृति सन्दोहे । ॥४६॥ - रिष्यत्येव भवतामधिकमासस्य गणनायां विद्यमानः कदाग्रहः । निवृत्तं च तस्मिन्नैव भवान् श्रावणिकत्वाश्रयणेन || पर्युषणापर्वणो भेदविधौ तत्परतामाधास्यति । अन्यच्च भगवन्तो युगप्रधानाः श्रीकालकाचार्याः वर्तमानशासनाधीश्वराः श्रीमलधारगच्छीयश्रीहेमचन्द्रसूर्यादिवचनात् श्रीवीरभगवतो निर्वाणात् त्रिपञ्चाशदधिकचतुःशत्यां, Hपर्युषणा तीर्थोद्गारनाम्ना प्रघोष्यमाणगाथामाश्रित्य तत एवाशीत्यधिकनवशत्यां, श्रीपयुषणाकल्पगतं वाचनान्तरीयपुस्तकारूढिकालस्य पर्युषणातिथिपरावत्तहेतुत्वेनारोपितं वचनमाश्रित्य त्रिनवत्यधिकनवशत्यां पर्युषणातिथेः परावर्त चक्रुरिति गीयते । त्रिष्वपि मतेषु तद्वर्षमाभिवर्धितं, यतः संख्यासु पञ्चभिभक्तास्वेतासु शून्यं त्रयथावशिष्यन्ते । एवं च सिद्ध तस्मिन् परावर्तनवर्षे श्रीकालकाचाययुगप्रधानैर्यद्भाद्रपदशुक्ले पञ्चम्यां सांवत्सरिकपर्युष्णाकृतये श्रीसङ्घायादेशो दत्तः, परमश्रावकशातवाहनराज्ञोऽनुरोधेन च चतुर्थी सांवत्सरिकपर्युषणां चक्रुः,। तत्सर्वमपि खरतराणां श्रावणिकानां मते नांशतोऽपि घटामटाट्यते । एवं चाधिकमासस्य गणनायामयुक्तत्वे सिद्धे यस्व कस्यापि मासस्य भवतु वृद्धिः, परं सा मासकल्पचातुर्मासिकसांवत्सरिकप्रमुखेपेक्षितुमेव योग्या । योग्यं च सर्वेष्वपि समानरीत्या भाद्रपदशुक्ल पञ्चम्यां श्रीकालकाचार्यादेशाचतुर्थ्यामेव च सांवत्सरिकपर्युषणाकृत्यकरणं । न च || श्रावणिकः खरतरैरपि तिथिवृद्धिहान्योः पञ्चदशदिनात्मकपक्षनिवृत्तं पाक्षिकं चतुर्दशी विहायान्यदा क्रियते, इति किं शोभास्पदमार्हतशासनमङ्गीकुर्वाणानामिदनजरतीयमनुष्ठानमिति ? । ननु भवद्भिरारब्ध गृहिज्ञातपर्युषणयोभिन्नकालकर्तव्यतामभिवर्धिते साधयितुं, तत्र गृहिज्ञातपर्युषणायामधिकमासस्य संख्यानं वृष्टथपेक्षितकृष्यादि क्रियाप्रत्ययिकमहं न तु पाक्षिकमासकल्पचातुर्मासिकसांवत्सरिकादिष्वित्यन्यान्यशास्त्रवचनैरनुमानप्रधानः साधितं, परं गृहिज्ञातपर्युषणायाः सांवत्सरिकस्य साक्षाद्भदप्रतिपादनपरमनुमानहेतुकं किमिति शास्त्रवचनं न दश्यते ? इति चेत् । सत्य, गृहिज्ञातपशुपणाया हेत्वादिदर्शने सांवत्सरिकभिन्नतायाः स्वभावसिः , परं । ॥४६॥ भवदाकाङ्क्षा चेत्तथाविधा, तर्हि तत्समाध्यर्थमपि क्रियते तत्र यत्नः। तत्र प्रथमं सांवत्सरिकं संवत्सरनिवृत्तं, ।। --- - - --
SR No.600284
Book TitleAgamoddharak Kruti Sandohe Part 02
Original Sutra AuthorManikyasagarsuri
Author
PublisherShantichandra C Zaveri
Publication Year1960
Total Pages104
LanguageSanskrit
ClassificationManuscript
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy