Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३३८
बृहत्कल्प-छेदसूत्रम् -३-५/१९३ यत्तैलंपच्यते।मरुतैलं-मरुदेशे पर्वतादुत्पद्यते।एवंविधानि दुर्लभद्रव्याणिप्रथमंतददैवसिकानि मार्गणीयानि।अथ दिने दिने न लभ्यन्तेततः पञ्चकपरिहाण्याचतुर्गुरुप्राप्त दूरादप्यानीय धीरः' गीतार्थो 'यतनया' अल्पसागारिके स्थाने मदनचीरे वेष्टयित्वा परिवासयेत्॥इदमेव सुव्यक्तमाह[भा.६०३२] एयाणि मक्खणट्ठा, पियणट्ठा एव पतिदिनालंभे ।
पणहानीए जइउं, चउगुरुपत्तो अदोसाओ॥ वृ- “एतानि' शतपाकादीनि तैलानि म्रक्षणार्थं पानार्थं वा प्रतिदिं यदि न लभ्यन्ते ततः पञ्चकपरिहाण्यायतित्वा चतुर्गुरुकंयदा प्राप्तो भवति तदा परिवासयन्नपि अदोषः' नप्रायश्चित्तभाक् । सर्वथैवालाभे गुरूणां हेतोरात्मनाऽपि यतनया पचन्ति॥
मू. (१९४) परिहारकप्पट्ठिए भिक्खू बहिया थेराण वेयावडियाए गच्छेज्जा, से य आहच्च अइक्कमिजा, तं च थेरा जाणिज्जा अप्पणो आगमेणं अन्नेसिं वा अंतिए सुचा, ततो पच्छा तस्स अहालहुसए नाम ववहारे पट्टवेयव्वे सिया।।
वृ-अस्य सम्बन्धमाह[भा.६०३३] निक्कारणपडिसेवी, अजयणकारी व कारणे साहू।
अदुवा चिअत्तकिच्चे, परिहारं पाउणे जोगो॥ वृ-निष्कारणे गात्रम्रक्षणादिकं प्रतिसेवितुंशीलमस्येति निष्कारणप्रतिसेवी सः, तथा कारणे वायो अयतनाकारी' पूर्वोक्तयतनां विना गात्रम्रक्षणविधायी साधुः, अथवा यः ‘त्यकुतकृत्यः' नीरुग्भूतोऽपि तदेव म्रक्षणादिकमुपजीवति स परिहारतपः प्राप्नुयादिति 'योगः' सम्बन्धः ॥ अनेनसम्बन्धेनायातस्यास्यव्याख्या-परिहारकल्पस्थितोभिक्षु बहिः' अन्यत्रनगरादौ स्थविराणाम् आचार्याणामादेशेन वैयावृत्यार्थगच्छेत् । किमुक्तंभवति? -अन्यस्मिन् गच्छे केषाञ्चिदाचार्याणां वादी नास्तिकादिक उपस्थितः, तेषां च नास्ति वादलब्धिसम्पन्नः, ततस्ते येषामाचार्याणां स परिहारिकस्तेषामन्तिके सङ्घाटकंप्रेषयन्ति, सच सङ्घाटकोब्रूते-वादिनंकमपिमुत्कलयताएवमुक्ते ते आचार्या परिहारिकं परवादिनिग्रहक्षमं मत्वा तत्र प्रेषयन्ति । ततस्तदादेशादसौ परिहारतपो वहमान एव तत्र गच्छेत् । इदं च महत् प्रवचनस्य वैयावृत्यं यद् अग्लान्या परवादिनिग्रहणम्, ततस्तदर्थं गतः ‘सः' परिहारिकः “आहच्च" कदाचिद् 'अतिक्रामेत्' पादधावनादिकंप्रतिसेवेत, 'तच प्रतिसेवनं स्थविराः' मौलाचार्याआत्मनः ‘आगमेन' अवध्याधतिशयज्ञानेनान्येषांवाऽन्तिके श्रुत्वा जानीयुः । 'ततः पश्चात्' तत्परिज्ञानान्तरं 'तस्य' परिहारिकस्य 'यथालघुस्वको नाम' स्तोकप्रायश्चित्तरूपो व्यवहारः प्रस्थापयितव्यः स्यादिति सूत्रार्थः ॥ अथ भाष्यम्[भा.६०३४] परिहारिओय गच्छे, आसन्ने गच्छ वाइणा कजं ।
आगमनं तहि गमनं, कारण पडिसेवणा वाए॥ वृ-परिहारिकः क्वापिगच्छेविद्यते, कचिच्चासत्रेऽन्यगच्छेवादिनाकारयमुत्पन्नम्, ततः 'तत्र' गच्छे आगमनम्' अन्यगच्छात् सङ्घाटक आगतः, तेन च 'वादी प्रेष्यताम्' इत्युक्ते गुरोरादेशात् परिहारतपोवहमानस्यैवतस्यतत्र गमनम्, तत्र गतेन तेन परवादी राजसभासमक्षं निष्पिष्टप्रश्नव्याकरणः कृतः, ततः प्रवचनस्य महती प्रभावना समजनि, तेन च वादस्य कारणेऽमूनि प्रतिसेवितानि भवेयुः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452