Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 373
________________ ३७० बृहत्कल्प-छेदसूत्रम् -३-६/२०४ सा ॥ "गिण्हमाणे व"त्ति बाह्वादावङ्गे गृह्णन् वा, "अवलंबमाणे व"त्ति अवलम्बमानो वा' बाह्नादौ गृहीत्वा धारयन्; अथवा 'गृह्णन्' सर्वाङ्गीणां धारयन्, ‘अवलम्बमानः' देशतः करेण गृह्णन्, साहयन्नित्यर्थः । नातिक्रामति स्वाचारमाज्ञां वा इति प्रथमसूत्रम्॥ द्वितीयसूत्रमप्येवमेव । नवरम्-सेको नाम-पङ्केपनके वासजले यत्र निमज्जयते तत्र वा, पङ्कःकर्दमः तत्र वा, पनको नाम-आगन्तुकः प्रतनुद्रवरूपः कर्दम एव तत्र वा, उदकं प्रतीतं तत्र वा, "ओकसमाणिं व"त्ति 'अपकसन्तीं वा' पङ्क-पनकयोः परिहसन्तीं “ओवुज्झमाणिं व" त्ति 'अपोह्यमानां वा' सेकेन उदकेन वा नीयमानां गृह्णन् वा अवलम्बमानो वा नातिकामति ॥ तृतीयसूत्रेनिर्ग्रन्थीमेवनावमारोहन्ती वा अवरोहन्तींवा गृह्णानोवाअवलम्बमानोवा नातिकामति इति सूत्रत्रयार्थ ॥ सम्प्रति भाष्यकारो विषमपदानि व्याचष्टे[भा.६१८३] तिविहं च होति दुग्गं, रुक्खे सावय मनुस्सदुग्गंच। निकारणम्मि गुरुगा, तत्थ वि आणादिणो दोसा॥ वृ-त्रिविधंच भवतिदुर्गम्, तद्यथा-वृक्षदुर्ग श्वापददुर्गं मनुष्यदुर्गंच।यवृक्षरतीवगहनतया दुर्गमं यत्र वा पथि वृक्षः पतितः तद् वृक्षदुर्गम्।यत्र व्याघ्र-सिंहादीनां भयंतत्श्वापददुर्गम् । यत्र म्लेच्छ-बोधिकादीनां मनुष्याणां भयं तद् मनुष्यदुर्गम् । एतेषु त्रिष्वपि दुर्गेषु यदि निष्कारणे निर्ग्रन्थीं गृह्णाति अवलम्बते व तदा चतुर्गुरु, आज्ञादयश्च दोषाः। [भा.६१८४] मिच्छत्ते सतिकरणं, विराधना फास भावसंबंधो। पडिगमणादी दोसा, भुत्ता-ऽभुत्ते व नेयव्वा । वृ-निर्ग्रन्थीं गृह्णन्तं तं दृष्ट्वा कोऽपि मिथ्यात्वं गच्छेत्-अहो! मायाविनोऽमी, अन्य वदन्ति अन्यच्च कुर्वन्ति । स्मृतिकरणं वा भुक्तभोगिनो भवति, अभुक्तभोगिनस्तु कुतूहलम् । ततश्च संयमविराधना ।स्पर्शतश्चभावसम्बन्धो भवति। ततः प्रतिगमनादयो दोषा भुक्तानामभुक्तानां वा साधु-साध्वीनां ज्ञातव्याः ॥अथ विषमपदं व्याख्याति[भा.६१८५] तिविहं च होति विसमं, भूमिं सावय मनुस्सविसमंच। - तम्मि विसो चेव गमो, नावोदग सेय जतणाए॥ वृ-त्रिविधं च भवति विषमम्-भूमिविषमं श्वापदविषमं मनुष्यविषमंच । भूमिविषमं नामगर्तापाषाणाद्याकुलो भूभागः, श्वापद-मनुष्यविषमे तु श्वापद-मनुष्यदुर्गवद् मन्तव्ये । अत्र भूमविषमेणाधिकारः । पर्वतपदं तु प्रतीत्वाद् न व्याख्यातम् । 'तस्मिन्नपि' विषमे पर्वते वा निर्ग्रन्थीं गृह्णतश्चतुर्गुरुकप्रायश्चित्तादिरूपः स एव गमो भवति यो दुर्गे भणितः । तथा 'नावुदके सेकादौ च' वक्ष्यमाणस्वरूपे निर्ग्रन्थीं गृह्णतो निष्कारणे त एव दोषाः । “जयणाए"त्ति कारणे यतनया दुर्गादिषु गृह्णीयादवलम्बेत वा । यतना चाग्रतो वक्ष्यते॥ अथ प्रस्खलन-प्रपतनपदे व्याचष्टे[भा.६१८६] भूमीए असंपत्तं, पत्तं वा हत्थ-जानुगादीहिं । पक्खुलणं नायव्वं, पवडण भूमीय गत्तेहिं ।। वृ-भूमावसम्प्राप्तं हस्त-जानुकादिभिः प्राप्तं वा प्रस्खलनं ज्ञातव्यम् । भूमौ प्राप्तं सर्वगात्रैश्च यत् पतनं तत्प्रपतनम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452