Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४०६
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ -अथवा य एष प्रस्तुतशास्त्र प्रलम्बादिकः 'बहधा' अनेकविधः कल्पः समाख्यातः तस्य 'षट्स्थाना' षट्प्रकारा स्थितिर्भवति। स्थितिरिति मर्यादा इति चैकार्थी शब्दौ ।
भूयोऽपि विनेयानुग्रहार्थं स्थितेरेवैकार्थिकान्याह[भा.६३५६] पतिट्ठा ठावणा ठाणं, निव्विसमाणे तहेव निविटे।
अवट्ठाणं अवत्था य, एकट्ठा चिट्ठणाऽऽति य॥ वृ-प्रतिष्ठास्थापना स्थानं व्यव्सथा संस्थिति स्थितिअवस्थानम् अवस्थाच, एतान्येकार्थिकानि पदानि । तथा "चिट्ठणं" ऊर्ध्वस्थानम् आदिशब्दाद् निषदनं त्वग्वर्तनं च, एतानि त्रीण्यपि स्थितिविशेषरुपाणि मन्तव्यानि॥साच कल्पिस्थिति षोढा, तद्यथा[भा.६३५७] सामाइए यछेदे, निव्विसमाणे तहेव निविट्टे ।
जिनकप्पे थेरेसुय, छव्विह कप्पट्टिती होति ।। कृ-सामायिकसंयतकल्पस्थितिछेदोपस्थापनीयसंयतकल्पस्थिति निर्विशमानकल्पस्थितितथैव निर्विष्टकायकल्पस्थिति जिनकल्पस्थिति स्थविरकल्पस्थितिश्रचेति षड्विधा कल्पस्थितिः॥
अथैनामेव यथाक्रमं विवरीषुः प्रथमतः सामायिककल्पस्थितिं विवृणोति[भा.६३५८] कतिठाण ठितो कप्पो, कतिठाणेहिं अद्वितो।
वुत्तो धूतरजो कप्पो, कतिठाणपतिहितो॥ वृ-यः किल 'धुतरजाः' अपनीतपापकर्मा सामायिकसाधूनां कल्पः' आचारोभगवद्भिक्तः स कतिषु स्थानेषु स्थितः ? कतिस्थानप्रतिष्ठितश्चोक्तः? ।। सूरिराह[भा.६३५९] चउठाणठिओ कप्पो, छहिं ठाणेहिं अडिओ।
एसोधूयरय क्कप्पो, दसट्ठाणपतिट्ठिओ॥ वृ-चतुःस्थानस्थितः कल्पः, षट्सुच स्थानेष्वस्थितः । तदेवमेष धुतरजाःसामायिकसंयतकल्पो दशस्थानप्रतिष्ठितः, केषुचित् स्थित्या केषुचित् पुनरस्थित्या दशसु स्थानेषु प्रतिबद्धो मन्तव्य इत्यर्थः । इदमेव व्यक्तीकरोति[भा.६३६०]चउहिं ठिता छहिं अठिता, पढमा बितिया ठिता दसविहम्मि।
वहमाणा निव्विसगा, जेहि वहं ते उ निविट्ठ॥ वृ-'प्रथमाः' सूत्रकमप्रामाण्येन सामायिकसंयतास्ते चतुर्युस्थानेषुस्थिताः, षट्सुपुनरस्थिताः। गाथायां सप्तम्यर्थे तृतीया।येतु द्वितीयाः' छेदोपस्थापनीयसयतास्तेदशविधेऽपि कल्पे स्थिताः। पञ्चाङ्केन तृतीय-चतुर्थकल्पस्थित्योः शब्दार्थमाह- “वहमाणा" इत्यादि। ये परिहारविशक्तिकं तपोवहन्तितेनिर्विशमानकाः ।यैस्तुतदेव तपोव्यदंते निर्विष्टकायिकाउच्यन्ते॥आह-कानि पुनस्तानि चत्वारिषदवा स्थानानि येषुसामायिकसंयता यथाक्रमंस्थिता अस्थिताश्च? इतिअत्रोच्यते[भा.६३६१] सिञ्जायरपिंडे या, चाउजामे य पुरिसजेडे य ।
कितिकम्मस्स य करणे, चत्तारि अवट्ठिया कप्पा॥ वृ- “सिज्जातरपिंडे" त्ति “सूचनात् सूत्रम्" इति शय्यातरपिण्डस्य परिहरणं चतुर्यामः पुरुषज्येष्ठश्चधर्म कृतिकर्मणश्च करणम् । एते चत्वारः कल्पाः सामायिकसाधूनामप्यवस्थिताः । तथाहि-सर्वेऽपि मध्यमसाधवो महाविदेहसाधवश्च शय्यातरपिण्ड परिहरन्ति, चतुर्यामं च धर्ममनुपालयन्ति, 'पुरुषज्येष्ठश्च धर्म' इति कृत्वा तदीया अप्यार्यिकाश्चिरदीक्षिता अपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452