Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
४१६
बृहत्कल्प-छेदसूत्रम् -३-६/२१५ शैक्षः षष्ठः६। एतेषट्कं प्रतिपत्तव्यं यस्योपस्थापना द्वितीयादेशे भणिता ॥ तृतीयादेशमाह[भा.६४१४] दंसणम्मि यवंतम्मि, चरित्तम्मिय केवले।
चियत्तकिच्चे सेहे य, उवट्ठप्पा यआहिया । कृ-दर्शन केवले' निशेषेवान्तेयोवर्तते १ योवाचारित्रेकेवलेवान्ते२पाराञ्चिका-ऽनवस्थाप्ययोः अत्रैवान्तर्भावो विवक्षितः,यश्च त्यक्तकृत्यः'षट्कायविराधकः३यश्चशैक्षः४एतेचत्वारः उपस्थाप्याः' उपस्थापनायोग्या आख्याताः ॥अथ तेषांमध्येक उपस्थापनीयः? नवा? इति चिन्तायामिदमाह[भा.६४१५] केवलगहणा कसिणं, जति वमती सणं चरित्तं वा।
तो तस्स उवट्ठवणा, देसे वंतम्मि भयणा तु॥ . वृ-दर्शन-चारित्रपदयोर्यत् केवलग्रहणं कृतं तत इदं ज्ञाप्यते-यदि ‘कृत्स्नं निशेषमपि दर्शनं चारित्रं वा वमति ततस्तस्योपस्थापना भवति, 'देशे' देशतः पुनदर्शने चारित्रेवा वान्ते 'भजना' उपस्थापना भवेद्वा न वा॥भजनामेव भावयति[भा.६४१६] एमेव य किंचि पदं, सुयं व असुयं व अप्पदोसेणं ।
अविकोवितो कहितो, चोदिय आउट्ट सुद्धोतु ॥ वृ-'एवमेव अविमृश्य किञ्चिद्' जीवादिकंसूत्रार्थविषयंवा पदं श्रुतंवाऽश्रुतंवा 'अल्पदोषेण' कदाग्रहा-ऽभिनिवेशादिदोषाभावेन ‘अविकोविदः' अगीतार्थ कस्यापि पुरतोऽन्यथा कथयन् आचार्यादिना ‘मा एवं वितथप्ररूपणां कार्षी' इति नोदितः सन् यदि सम्यगावर्तते तदा स मिथ्यादुष्कृतप्रदानमात्रेणैव शुद्ध इति॥
तच्च दर्शनमनाभोगेनाभोगेन वा वान्तं स्यात्, तत्रानाभोगेन वान्ते विधिमाह[भा.६४१७] अनाभोएण मिच्छत्तं, सम्मत्तं पुनरागते।
तमेव तस्स पछित्तं,जमग्गं पडिवज्जई। वृ-एकः श्राद्धो निह्नवान् साधुवेषधारिणो दृष्ट्वा यथोक्तकारिणः साधव एते' इतिबुध्या तेषां सकाशे प्रव्रजितः । स चापरैः साधुभिर्भणितः-किमेवं निह्नवानां सकाशे प्रव्रजितः? । स प्राह-नाहमेनं विशेषं ज्ञातवान् । ततः स मिथ्यादुष्कृतं कृत्वा शुद्धदर्शननिनां समीपे उपसम्पन्नः। एवमनाभोगेन दर्शनं वमित्वा मिथ्यात्वं गत्वा सम्यक्त्वं पुनरागतस्य तदेव प्रायश्चित्तं यदसौ सम्यगमार्ग प्रतिपद्यते, स एव च तस्य व्रतपर्यायः, न भूय उपस्थापना कर्तव्या ॥आभोगेन वान्तेपुनरयं विधिः[भा.६४१८] आभोगेन मिच्छत्तं, सम्मत्तं पुनरागते।
जिन-थेराण आणाए, मूलच्छेज्जंतु कारए॥ वृ- यः पुनः 'आभोगेन' 'निहवा एते' इति जानन्नपि मिथ्यात्वं सङ्कान्त इति शेषः, निह्नवानामन्तिके प्रव्रजित इत्यर्थः, स च सम्यक्त्वमन्येन प्रज्ञापितः सन् 'पुनर् भूयोऽपि यदि आगतस्ततस्तं जिन-स्थविराणां तीर्थकर-गणभृतामाज्ञया मूलच्छेद्यं प्रायश्चित्तंकारयेत्, मूलत एवोपस्थापनां तस्य कुर्यादिति भावः । एवं दर्शने देशतो वान्ते उपस्थापनाभजना भाविता। सम्प्रति चारित्रे देशतो वान्ते तामेव भावयति[भा.६४१९] छण्हं जीवनिकायाणं, अणप्पज्झोतु विराहओ।
आलोइय-पडिक्कतो, सुद्धो हवति संजओ॥ वृषण्णांजीवनिकायानां "अणप्पज्झो" 'अनात्मवशः' क्षिप्तचित्तादिर्यदि विराधको भवति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452