Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 429
________________ ४२६ बृहत्कल्प-छेदसूत्रम् -३-६/२१५ वृ- परिहारिका उत्कर्षतो द्वादशं तपः कृत्वा आचाम्लेन पारयन्ति । ते च परिहारिकाश्चत्वारोऽपि 'प्रत्येकं' पृथक् पृथक् परिहरन्ति, न परस्परं समुद्देशनादिसम्भोगं कुर्वन्तीत्यर्थः । ते च परिहारिका अभिगृहीतया पञ्चानामुपरितनीनामन्यतरैषणया भक्त पानं गृह्णन्ति । ये तु चत्वारोऽनुपारिहारिका एकश्च कल्पस्थितस्तेषां पञ्चानामप्येक एव सम्भोगः, ते च प्रतिदिवसमाचाम्लं कुर्वन्ति । यस्तु कल्पस्थितः स स्वयं न हिण्डते, तस्य योग्यं भक्त - पानमनुपारिहारिका आनयन्ति । [भा. ६४७४ ] परिहारिओ वि छम्मासे अनुपरिहारिओ वि छम्मासा । कप्पट्ठितो वि छम्मासे एते अट्ठारस उ मासा ।। वृ- परिहारिकाः प्रथमतः षण्मासान् प्रस्तुतं तपो वहन्ति, ततोऽनुपरिहारिका अपि षण्मासान् वहन्ति, इतरेतु तेषामनुपारिहारिकत्वं प्रतिपद्यन्ते । तैरपि व्यूढे सति कल्पस्थितः षण्मासान् वहति, ततः शेषाणामेकः कल्पस्थितो भवति एकः पुनरनुपरिहारिकत्वं प्रतिपद्यते । एवमेतेऽथदश मासा भवन्ति ॥ [भा. ६४७५ ] अनुपरिहारिगा चेव, जे य ते परिहारिगा । अन्नमन्नेसु ठाणेसु, अविरुद्धा भवंति ते ।। - अनुपरिहारिकाश्चैव ये चते परिहारिकास्तेऽन्यान्येषु स्थानेषु कालभेदेन परस्परमेकैकस्य वैयावृत्यं कुर्वन्तोऽविरुद्धा एव भवन्ति ।। ततश्च [भा. ६४७६ ] एहिं छहि मासेहिं, निव्विट्ठा भवंति ते । ततो पच्छा ववहारं, पट्ठवंति अनुपरिहारिया ॥ वृ- ते परिहारिकाः षड्भिर्मासैर्गतैस्तपसि व्यूढे सति निर्विष्टाः' निर्विष्टकायिका भवन्ति । ततः पश्चादनुपरिहारिकाः 'व्यवहारं' परिहारतपसः समाचारं 'प्रस्थापयन्ति' कर्तुं प्रारभन्ते ॥ एहिं छहिअ मासेहिं, निव्विट्ठा भवंति ते । वह कप्पट्ठितो पच्छा, परिहारं तहाविहं ॥ [भा. ६४७७ ] वृ-तेऽपि षड्भिर्मासैर्गतैर्निर्विष्टा भवन्ति । पश्चात् कल्पस्थितोऽपि तथाविधं परिहारं तावत एव मासान् वहति ॥ एवं च[भा. ६४७८ ] अट्ठारसहिं मासेहिं, कप्पो होति समानितो । मूलट्ठवणाए समं छम्मासा तु अनूनगा ॥ वृ- अष्टादशभिर्मासैरयं कल्पः समापितो भवति । कथम् ? इत्याह-“मूलट्ठवणा” इत्यादि। मूलस्थापना नाम-यत् परिहारिकाः प्रथमत इदं तपः प्रतिपद्यन्ते, तस्यां षण्मासा अन्यूनास्तपो भवति, एवमनुपारिहारिकाणां कल्पस्थितस्य च मूलस्थापनया 'समं' तुल्यं तपः प्रत्येकं ज्ञेयम्, षण्मासान् यावदित्यर्थः । एवं त्रिभि षटकैरष्टादश मासा भवन्ति । ते च द्विधा-जिनकल्पिकाः स्थविरकल्पिकाश्च । उभयेषामपि व्याख्यानमाह [भा. ६४७९ ] एवं समानिए कप्पे, जे तेसिं जिनकप्पिया । तमेव कप्पं ऊना वि, पालए जावजीवियं ॥ वृ- 'एवम्' अनन्तरोक्तविधिनाऽष्टादशभिर्मासैः कल्पे समापिते सति ये तेषां मध्याद् जिनकल्पिकास्ते तमेव कल्पमूना अप्यष्टादिसङ्ख्याका अपि यावज्जीवं पालयति ।। अट्ठारसेहिं पुत्रेहिं, मासेहिं थेरकप्पिया । पुनो गच्छं नियच्छंति, एसा तेसिं अहाठिती ॥ [भा. ६४८० ] For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452