Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 417
________________ ४१४ बृहत्कल्प-छेदसूत्रम् - ३-६/२१५ मज्झिमगाण जिनानं, सुविसोझो सुरनुपालो य ॥ वृ- पूर्वेषां साधूनां दुर्विशोध्यः कल्पः, 'चरमाणां' पश्चिमानां दुरनुपाल्यः, मध्यमकानां तु जिनानां तीर्थे साधूनां सुविशोध्यः सुखानुपाल्यश्च भवति । इयमत्र भावना- पूर्वे साधव ऋजुजडाः, ततः परिग्रहव्रत एवान्तर्भावं विक्षित्वा यदि मैथुनव्रतं साक्षान्नोपदिश्यते ततस्ते जडतया नेदमवबुध्यन्ते, यथा-मैथुनमपि परिहर्तव्यम्; यदा तु पृथक् परिस्फुटं मैथुनं प्रतिषिध्यते ततः सुखेनैव पर्यवस्यन्ति परिहरन्ति च । पश्चिमास्तु वक्र-जडाः, ततो मैथुने साक्षादप्रतिषिद्धे परिग्रहान्तस्तदन्तर्भावं जानन्तोऽपि वक्रतया परपरिगृहीतायाः स्त्रयाः प्रतिसेवनां कुर्वीरन्, पृष्टथश्च ब्रवीरन्- नैषाऽस्माकं परिग्रह इति । तत एतेषां पूर्व-पश्चिमानां पञ्चयामो धर्मो भगवता ऋषभस्वामिना वर्द्धमानस्वामिना च स्थापितः । ये तु मध्यमाः साधवस्ते ऋजु -प्राज्ञाः, ततः परिग्रहे प्रतिषिद्धे प्राज्ञत्वेनोपदेशमात्रादपि अशेषहेयोपादेयविशेषाभ्यहनपटीयस्तया चिन्तयेयुः - नापरिगृहीता स्त्री परिभुज्यते अतो मैथुनमपि न वर्तते सेवितुम्; एवं मैथुनं परिग्रहेऽन्तर्भाव्य तथैव परिहरन्ति ततस्तेषां चतुर्यामो धर्मो मध्यमजिनैरुक्त इति । अमुमेवार्थं समर्थयन्नाह [भा. ६४०४] जड्डुत्तणेण हंदिं, आइक्ख-विभागउवणता दुक्खं । सुहसमुदिय दंताण व, तितिक्ख अनुसासना दुक्खं ॥ वृ- सर्वेषां (पूर्वेषां ) साधूनां जडतया 'हन्दि' इत्युपप्रदर्शने वस्तुतत्त्वस्याख्यानं 'दुःखं' कृच्छ्रेण, महता वचनाटोप प्रयासेन कर्तुं शक्यमित्यर्थः । एवमाख्यातेऽपि वस्तुतत्त्वे विभागः पार्थक्येन व्यवस्थापनं महता कष्टेन कर्तुं शक्यते। विभक्तेऽपि वस्तुतत्त्वे उपनयः- हेतु दृष्टान्तैः प्रतीतावारोपणं कर्तुं दुःशकम् । ते च प्रथमतीर्थकरसाधवः 'सुखसमुदिताः' कालस्य स्निग्धतया शीतोष्णादीनां तथाविधदुःखहेतूनामभावात् सुखेन सम्पूर्णास्ततः 'तितिक्षा' परीषहादेरधिसहनं तेषां 'दुःख' दुष्करम् । तथा दान्ताः-एकान्तेनोपशान्तास्ते ततः क्वचित् प्रमादस्खलितादौ शिष्यमाणानामनुशासनाऽपि कर्तुं दुःशका ॥ [भा. ६४०५ ] मिच्छत्तभावियाणं, दुवियहमतीण वामसीलाणं । आइक्खिउं विभइउं, उवनेउं वा वि दुक्खं तु ॥ वृ- ये तु चरमतीर्थकर साधवस्ते प्रायेण मिथ्यात्वभाविता दुर्विदग्धमतयो वामशीलाश्च, ततस्तेषामपि वस्तुतत्त्वमाख्यातुं विभक्तुमुपनेतुं वा 'दुःखं' दुःखतरम् ॥ [भा. ६४०६] दुक्खेहि भत्थिताणं, तनु-धितिअबलत्तओ य दुतितिक्खं । एमेव दुरनुसासं, मानुक्कडओ य चरिमाणं ।। वृ- तथा कालस्य रूक्षतया 'दुःखैः' विविधाऽऽधि-व्याधिप्रभृतिभि शारीर-मानसैः 'भर्सितानाम्' अत्यन्तमुपतापितानां तनुः शरीरं धृति-मानसोऽवष्टम्भः तद्विषयं यद् अबलत्वं-बलाभावस्ततः कारणाद् दुस्तितिक्षं तेषां परीषहादिकं भवति । एवमेव मानस्य - अहङ्कारस्य उपलक्षणत्वात् क्रोधादेश्चोत्कटतया दुरनुशासं चरमाणां भवति, उत्कटकषायतया दुःखेनानुशासनां ते प्रपद्यन्त इत्यर्थः । अत एषां पूर्वेषां च पञ्चयामो धर्म इति प्रक्रमः ॥ [भा. ६४०७] एए चैव य ठाणा, सुप्पनुत्तणेण मज्झाणं । सुह- दुह - उभयबलाण य, विमिस्सभावा भवे सुगमा ॥ वृ-‘एतान्येव' आख्यानादीनि स्थानानि मध्यमानां 'सुगमानि' सुकराणि भवेयुरिति सम्बन्धः । For Private & Personal Use Only - www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452