Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ६, मूलं-२१५, [भा. ६३९७]
४१३ [भा.६३९७] तिक्खुत्तो सक्खित्ते, चउद्दिसिंजोयणम्मि कडजोगी।
. दव्वस्स य दुल्लभया, जयणाए कप्पई ताहे ।। वृ-गाथाद्वयंशय्यातरपिण्डवद्रष्टव्यम्।नवरम् आगाढे ग्लानत्वेक्षिप्रमेव राजपिण्डंगृह्णाति। अनागाढे तु त्रिकृत्वो मार्गयित्वा यदा न लभ्यते तदा पञ्चकपरिहाण्या चतुर्गुरुकप्राप्तो गृह्णाति । 'निमन्त्रणेतु राज्ञा निर्बन्धेन निमन्त्रितो भणति-यदि भूयोनभणसिततोगृह्णीमो वयम् नान्यथा। अवमेऽशिवे चान्यत्रालभ्यमाने राजकुलं वा नाशिवेन गृहीतं ततस्तत्र गृह्णाति । राजद्विष्टे तु अपरस्मिन् राज्ञि कुमारे वा प्रद्विष्टे बोधिकम्लेच्छभये वा राज्ञो गृहादनिर्गच्छन् गृह्णीयात्।। गतं राजपिण्डद्वारम् । अथ कृतिकर्मद्वारमाह[भा.६३९८] कितिकम्मं पि य दुविहं, अब्युट्टाणं तहेव वंदनगं।
समणेहि य समणीहि य, जहारिहं होति कायव्वं ॥ वृ-कृतिकर्मापि च द्विविधम्-अभ्युत्थानं तथैव वन्दनकम् । एतच्च द्विविधमपि तृतीयोद्देशके सविस्तरं व्याख्यातम्। उभयमपिच श्रमणैःश्रमणीभिश्च यथाहँ' यथारत्नाधिकंपरस्परंकर्तव्यम्। तथा श्रमणीनामयं विशेषः[भा.६३९९] सव्वाहि संजतीहिं, कितिकम्मं संजताण कायव्वं ।
पुरिसुत्तरितो धम्मो, सव्वजिनानं पि तित्थम्मि॥ वृ-सर्वाभिरपि संयतीभिश्चिरप्रव्रजिताभिरपि संयतानां तद्दनिदीक्षितादीनामपि कृतिकर्म कर्तव्यम् । कुतः ? इत्याह-'सर्वजिनानामपि सर्वेषामपि तीर्थकृतांतीर्थे पुरुषोत्तरोधर्म इति॥ [भा.६४००] तुच्छत्तणेण गव्बो, जायति न य संकते परिभवेणं।
अन्नो वि होज्ज दोसो, थियासुमाहुज्जहज्जासु॥ वृ-स्त्रियाः साधुना वन्द्यमानायास्तुच्छत्वेनगर्वोजायते।गर्विताचसाधुंपरिभवबुध्यापश्यति। ततः परिभवेन 'न च' नैव साधोः 'शङ्कते' बिभेति । अन्योऽपि दोषः स्त्रीषु 'माधुर्यहार्यासु' मार्दवग्राह्यासु वन्द्यमानासु भवति, भावसम्बन्ध इत्यर्थः ।। [भा.६४०१] अवि यहु पुरिसपणीतो, धम्मो पुरिसो य रखिउं सत्तो।
लोगविरुद्धं चेयं, तम्हा समणाण कायव्वं ॥ वृ-'अपिच' इति कारणान्तराभ्युच्चये। पुरुषैः-तीर्थकर-गणधरलक्षणैः प्रणीतः पुरुषप्रणीतो धर्म । पुरुष एव च तं धर्मं रक्षितुं' प्रत्यनीकादिनोपद्रूयमाणं पालयितुं शक्तः । लोकविरुद्धं च 'एतत् पुरुषेण स्त्रिया वन्दनम् । तस्मात् श्रमणानां ताभिः कर्तव्यम्॥
गतंकृतिकर्मद्वारम् । अथ व्रतद्वारमाह[भा.६४०२] पंचायामो धम्मो, पुरिमस्स य पच्छिमस्स य जिनस्स।
मज्झिमगाण जिनानं, चाउज्जामो भवे धम्मो।। वृ-पञ्च यामाः-व्रतानि यत्रसपञ्चयामः, “दीर्घ-हस्वौ मिथो वृत्तौ" इतिप्राकृतलक्षणवशात् चकारस्य दीर्घत्वम् । एवंविधो धर्म पूर्वस्य च पश्चिमस्य च जिनस्य । मध्यमकानां जिनानां पुनश्चतुर्यामो धर्मो भवति, मैथुनव्रतस्य परिग्रहव्रत एवान्तर्भावविवक्षणात् ॥
कुत एवम् ? इति चेद् उच्यते[भा.६४०३] पुरिमाण दुव्विसोझो, चरिमाणं दुरनुपालओ कप्पो ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452