Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 414
________________ उद्देशक : ६, मूलं-२१५, [भा. ६३८३] ४११ सेसेसु होतऽपिंडो, जहि दोसा ते विवजंति ॥ वृ-प्रथमे भङ्गे राजपिण्ड: 'वज्य: परित्यक्तव्यः, ये 'तत्र' राजपिण्डे गृह्यमाणे दोषास्ते भवन्तु वा मा वा तथापि वर्जनीयः। शेषेषु' त्रिषु भङ्गेषु अपिण्डः' राजपिण्डो न भवति तथापि येषु दोषा भवन्ति 'तान्' द्वितीयादीनपि भङ्गान् वर्जयन्ति । इयमतर भावना-यः सेनापति-मन्त्रिपुरोहित-श्रेष्ठि-सार्थवाहसहितो राज्यं भुङ्के तस्य पिण्डो वर्जनीयः, अन्यत्र तु भजनेति ।। गतं 'कीशो राजा?' इति द्वारम् । अथ के तस्य भेदाः?' इति द्वारं चिन्तयन्नाह[भा.६३८४] असणाईआ चउरो, वत्थे पादे य कंबले चेव । पाउंछणए य तहा, अट्ठविधो रायपिंडो उ॥ वृ-'अशनादयः' अशन-पान-खादिम-स्वादिमरूपाये चत्वारो भेदाः ४ यच्च वस्त्र ५ पात्रं कम्बलं७ पादप्रोज्छनकं रजोहरणं ८एषोऽष्टविधोराजपिण्डः ॥अथ केतस्य दोषाः?' इति द्वारमाह[भा.६३८५] अट्ठविह रायपिंडे, अन्नतरागंतु जो पडिग्गाहे । सो आणा अवत्थं, मिच्छत्त विराधनं पावे ॥ वृ-अष्टविधे राजपिण्डे 'अन्यतरत्' अशनादिकं यः प्रतिगृह्णाति स साधुराज्ञाभगमनवस्थां मिथ्यात्वं विराधनांच प्राप्नुयात् ॥ एते चापरे दोषाः[भा.६३८६] ईसर-तलवर-माइंएहि सिट्ठीहि सत्थवाहेहिं । नितेहि अतितेहि य, वाघातो होति भिक्खुस्स ॥ वृ- ईश्वर-तलवर-माडम्बिकैः श्रेष्ठिभिः सार्थवाहैश्च निर्गच्छद्भिः ‘अतियद्भिश्च प्रविशद्भिर्भिक्षोभिक्षार्थं प्रविष्टस्य व्याघातो भवति॥ एतदेव व्याचष्टे[भा.६३८७] ईसर भोइयमाई, तलवरपट्टेण तलवरो होति। वेट्टणबद्धो सेट्ठी, पच्चंतऽहिवो उ माडंबी॥ वृ-ईश्वरः 'भोगिकादिः' ग्रामस्वामिप्रभृतिक उच्यते । यस्तु परितुष्टनृपतिप्रदत्तेन सौवर्णेन तलवरपट्टेनाङ्कितशिराः स तलवरो भवति । श्रीदेवताध्यासितः पट्टो वेष्टनकमुच्यते, तद् यस्य राज्ञाऽनुज्ञातं स वेष्टनकबद्धः श्रेष्ठी । यस्तु 'प्रत्यन्ताधिपः' छित्रमडम्बनायकः स माडम्बिकः। सार्थवाहः प्रतीत इति कृत्वा न व्याख्यातः॥ [भा.६३८८] जा निति इति ता अच्छओ असुत्तादि-भिक्खहानी य। ___ इरिया अमंगलं ति य, पेल्लाऽऽहनना इयरहा वा॥ वृ-एते ईश्वरादयो यावद् निर्गच्छन्ति प्रविशन्ति च तावद् असौ साधुः प्रतीक्षमाण आस्ते, तत एवमासीनस्य सूत्रार्थयोर्भेक्षस्य च परिहाणिर्भवति। अश्व-हस्त्यादिसम्मर्दैनचेयाँ शोधयितुं न शक्नोति । अथ शोधयति ततस्तैरभिघातो भवति । कोऽपि निर्गच्छन् प्रविशन् वा तं साधु विलोक्यामङ्गलमितिमन्यमानस्तेनैवाश्व-हस्त्यादिना प्रेरणंकशादिना वाऽऽहननं कुर्यात् । “इतरहा व"त्ति यद्यपि कोऽप्यमङ्गलं न मन्यते तथापि जनसम्पर्दे प्रेरणमाहननं वा यथाभावेन भवेत्॥ [भा.६३८९] लोभे एसणघाते, संका तेने नपुंस इत्थी य । इच्छंतमनिच्छंते, चाउम्मासा भवे गुरुगा। वृ-राजभवनप्रविष्टः 'लोभे उत्कृष्टद्रव्यलोभवशत एषणाघातं कुर्यात् । 'स्तेनोऽयम्' इत्यादिका च शङ्का राजपुरुषाणां भवेत् । नपुंसकः स्त्रयो वा तत्र निरुद्धन्द्रियाः साधुमुपसर्गयेयुः तत्र Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452