Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ६, मूलं-२१५, [भा. ६४४३]
४२१ वृ-अष्टादशभेदाः 'पुरुषे पुरुषविषयाः, विंशतिः स्त्रियः, दश नपुंसकाः, एतानष्टचत्वारिंशतमनलान् शैक्षान् यो न दीक्षते स एष कल्प-कल्पवतोरभेदात् शैक्षस्थापनाकल्प उच्यते ॥ [भा.६४४४] आहार-उवहि-सेजा, उग्गम-उप्पादनेसणासुद्धा।
जो परिगिण्हति निययं, उत्तरगुणकप्पिओ स खलु ॥ वृ-य आहारोपधि-शय्या उद्गमोत्पादनैषणाशुद्धाः 'नियतं' निश्चितं परिगृह्णाति स खलूत्तरगुणकल्पिको मन्तव्यः ।। एतेषु सशकल्पेन सह किं कर्तव्यम् ? इत्याह[भा.६४४५] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्टतरए वा।
साहूहिं संथवं कुजा, नाणीहि चरित्तगुत्तेहिं । वृ-'सहक्कल्पः' स्थितकल्प-स्थापनाकल्पादिभिरेककल्पवर्ती सद्दक्छन्दः' समानसामाचारीकः 'तुल्यचारीत्रः' समानसामायिकादिसंयमः विशिष्टतरोवा' तीव्रतरशुभाध्यवसायविशेषेणोत्कृष्टतरेषु संयमस्थानकण्डकेषु वर्तमानः, ईशा ये ज्ञानिनश्चारित्रगुप्ताश्च तैः सह 'संस्तवं' परिचयमेकत्र संवावादिकं कुर्यात् ॥ [भा.६४४६] सरिकप्पे सरिछंदे, तुल्लचरित्ते विसिट्ठतरए वा ।
____ आदिज्ज भत्त-पानं, सतेन लाभेन वा तुस्से॥ वृ-यः सद्दक्कल्पः सद्दक्छन्दस्तुल्यचारित्रो विशिष्टतरो वा 'तेन' एवंविधेन साधुनाऽऽनीतं भक्त-पानमाददीत्, ‘स्वकीयेन वा आत्मीयेनलाभेन तुष्येत्, हीनतरस्तकंन गृह्णीयात्॥तदेवमुक्ता छेदोपस्थापनीयकल्पस्थिति । अथ निर्विशमान-निर्विष्टकायिककल्पस्थितिद्वयं विवरीषुराह[भा.६४४७] परिहारकप्पं पवक्खामि, परिहरंति जहा विऊ ।
आदी मज्झऽवसाने य, आनुपुट्विं जहक्कम ॥ वृ-परिहारकल्पं प्रवक्ष्यामि, कथम् ? इत्याह-यथा 'विद्वांसः' विदितपूर्वगतश्रुतरहस्यास्तं कल्पं परिहरन्ति' धातूनामनेकार्थत्वाद्आसेवन्ते।कथं पुनः वक्ष्यसि ? इति अत आह-'आदौ' तप्रथमतया प्रतिपद्यमानानां मध्ये' प्रतिपन्नानाम् 'अवसाने' प्रस्तुतकल्पमाप्तौ या आनुपूर्वी' सामाचार्या परिपाटि तां यथाक्रमं प्रवक्ष्यामीति सण्टङ्कः॥
तत्र कतरस्मिन् तीर्थे एष कल्पो भवति? इति जिज्ञासायामिदमाह[भा.६४४८] भरहेरवेसुवासेसु, जता तित्थगरा भवे।
पुरिमा पच्छिमा चेव, कप्पं देसेंति ते इमं ॥ वृ-भरतैरावतेषु वर्षेषु दशस्वपि यदा तृतीय-चतुर्थारकयोः पश्चिमे भागे पूर्व पश्चिमाश्च तीर्थकरा भवेयुः तदा ते भगवन्तः ‘इमं प्रस्तुतं कल्पं 'दिशन्ति' प्ररूपयन्ति, अर्थादापन्नम्मध्यमतीर्थकृतां महाविदेहेषु च नास्ति परिहारकल्पस्थितिरिति ॥आह यदि एवं ततः[भा.६४४९] केवइयं कालसंजोगं, गच्छो उ अनुसज्जती।
तित्थयरेसु पुरिमेसु, तहा पच्छिमएसुय॥ वृ-कियन्तं कालसंयोगंपरिहारकल्पिकानां गच्छ: पूर्वेषु पश्चिमेषुच तीर्थकरेषु अनुसजति' परम्परयाऽनुवर्तते? ॥ एवं शिष्येण पृष्टे सति सूरिराह[भा.६४५०] पुव्वसयसहस्साई, पुरिमस्स अनुसज्जती।
वीसग्गसो य वासाई, पच्छिमस्सानुसज्जती ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452