Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 410
________________ उद्देशक ः ६, मूलं-२१५, [भा. ६३६१] ४०७ तद्दिनदीक्षितमपि साधुं वन्दन्ते, कृतिकर्म च यथारालिकं तेऽपि कुर्वन्ति । अत एते चत्वारः कल्पा अवस्थिताः॥इमे पुनः षडनवस्थिताः[भा.६३६२] आचेलक्कुद्देसिय, सपडिक्कमणे य रायपिंडे य । मासंपजोसवणा, छऽप्पेतऽनवहिता कप्पा ।। वृ-आचेलक्यमौद्देशिकंसप्रतिक्रमणोधर्मो राजपिण्डो मासकल्पः पर्युषणाकल्पश्चेतिषडप्येते कल्पामध्यमसाधूनां विदेहसाधूनांचानवस्थिताः। तथाहि-यदि तेषां वस्त्रप्रत्ययो रागो द्वेषो वा उत्पद्यते तदा अचेलाः, अथ न रागोत्पत्तिस्ततः सचेलाः, महामूल्यं प्रमाणातिरिक्तमपि च वस्त्रं गृह्णन्तीति भावः 'औद्देशिकं नाम' साधूनुद्दिश्य कृतं भक्तादिकम् आधाकर्मेत्यर्थः, तदप्यन्यस्य साधोराय कृतं तेषां कल्पते, तदर्थं तु कृतं न कल्पते । प्रतिक्रमणमपि यदि अतिचारो भवति ततः कुर्वन्ति अतिचाराभावेन कुर्वन्ति। राजपिण्डे यदि वक्ष्यमाणा दोषा भवन्तिततः परिहरन्ति अन्यथा गृह्णन्ति । मासकल्पे यदि एकक्षेत्रे तिष्ठतां दोषा न भवन्ति ततः पूर्वकोटीमप्यासते, अथ दोषा भवन्ति ततो मासे पूर्णेऽपूर्णे वा निर्गच्छन्ति । पर्युषणायामपि यदि वर्षासु विहरतां दोषा भवन्ति तत एकत्र क्षेत्रे आसते, अथ दोषा न भवन्ति ततो वर्षारात्रेऽपि विहरन्ति ।। गता सामायिकसंयतकल्पस्थितिः। अथ च्छेदोपस्थापनीयसाधूनां कल्पस्थितिमाह[भा.६३६३] दसठाणठितो कप्पो, पुरिमस्स य पच्छिमस्स य जिनस्स। एसोधुतरत कप्पो, दसठाणपतिहितो होति।। वृ-दशस्थानस्थितःकल्पःपूर्वस्यचपश्चिस्यचपश्चिमस्यचजिनस्यतीर्थे छेदोपस्थापनीयसाधूनां मन्तव्यः । तदेवमेष धुतरजाः कल्पोदशस्थानप्रतिष्ठितो भवति॥तान्येव दशस्थानानिदर्शयति[भा.६३६४] आचेलक्कुद्देसिय, सिज्जायर रायपिंड कितिकम्मे । वत जेट्ट पडिक्कमणे, मासं-पजोसवणकपे। वृ-आचेलकस्यम् १ औद्देशिकं २ शय्यातरपिण्डो ३ राजपिण्डः ४ कृतिकर्म ५ व्रतानि ६ "जे?" त्ति पुरुषज्येष्ठो धर्मः ७ प्रतिक्रमणं ८ मासकल्पः ९ पर्युषणाकल्पश्च १० इति द्वारगाथासमासार्थः ।। साम्प्रतमेनामेव विवरीषुराह[भा.६३६५] दुविहो होति अचेलो, संताचेलो असंतचेलोय । तित्थगर असंतचेला, संताचेला भवे सेसा ॥ वृ-द्विविधो भवत्सचेलः-सदचेलोऽसदचेलश्चातत्रतीर्थकराअसदचेलाः, देवदूष्यपतनानन्तरं सर्वदैव तेषां चीवराभावात्। शेषाः' सर्वेऽपि जिनकल्पिकादिसाधवः सदचेलाः, जघन्यतोऽपि रजोहरण-मुखवस्त्रिकासम्भवात् ।। आह-यद्येवंततः कथममी अचेला भण्यन्ते? उच्यते[भा.६३६६] सीसावेढियपुत्तं, नदिउत्तरणम्मि नग्गयं बेति। जुन्नेहि नग्गिया मी, तुर सालिय! देहि मे पोतिं । वृ-जलतीमनभयात् शीर्षे-शिरसिआवेष्टितं पोतं-परिधानवस्त्रं येन स शीर्षावेष्टितपोतस्तम्, एवंविधंसचेलमपि 'नद्युत्तरणे' अगाधायाः कस्याश्चिद् नद्या उत्तरणं कुर्वन्तं दृष्टवा नग्नकंब्रुवते, 'नग्नोऽयम्' इति लोके वक्तारो भवन्तीत्यर्थः। यथा वा काचिदविरतिका परिजीर्णवस्त्रपरिधाना प्राक्समर्पितवेतनंतन्तुवायंशाटिकानिष्पादनालसंब्रवीति, यथा-जीर्णैर्वस्त्र परिहितैनग्निकाऽहमस्मिततस्त्वरस्व हे शालिक!' तन्तुवाय! देहि मे पोतिका' शाटिकाम्॥अथात्रैवोपनयमाह For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452