Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 411
________________ ४०८ बृहत्कल्प-छेदसूत्रम् - ३-६/२१५ [भा. ६३६७] जुन्नेहिं खंडिएहि य, असव्वतनुपाउतेहिं न य निच्चं । संतेहिं वि निग्गंथा, अचेलगा होंति चेलेहिं ॥ वृ- एवं 'जीर्णैः' पुराणैः, 'खण्डितैः' छिन्नैः, 'असर्वतनुप्रावतैः ' स्वल्पप्रमाणतया सर्वस्मिन् शरीरेऽप्रावृतैः प्रमाणहीनैरित्यर्थः, न च 'नित्यं' सदैव प्रावृतैः किन्तु शीतादिकारणसद्भावे, एवंविधैश्चैलैः 'सद्भिरपि' विद्यमानैरपि निर्ग्रन्था अचेलका भवन्ति । अत्र पराभिप्रायमाशङ्कय परिहरति[ भा. ६३६८ ] एवं दुग्गत-पहिता, अचेलगा होंति ते भवे बुद्धी ते खलु असंततीए, घरेंति न तु धम्मबुद्धीए ॥ वृ-यदि जीर्ण- खण्डितादिभिर्वस्त्र प्रावृतैः साधवोऽचेलकास्तत एवं दुर्गताश्च दरिद्राः पथिकाश्चपान्था दुर्गत-पथिकास्तेऽपि अचेलका भवन्तीति 'ते' तव बुद्धि स्यात् तत्रोच्यते- 'ते खलु' दुर्गतपथिकाः 'असत्तया' नव-व्यूत-सदशकादीनां वस्त्रणामसम्पत्त्या परिजीर्णादीनि वासांसि धारयन्ति, न पुनर्धर्मबुद्धया, अतो भावतस्तद्विषयमूर्च्छापरिणामस्यानिवृत्तत्वान्नैते अचेलकाः; साधवस्तु सति लाभे महाधनादीनि परिहृत् जीर्ण-खण्डितादीनि धर्मबुद्धया धारयन्तीत्यतोऽचेला उच्यन्ते । यद्येवमचेलास्ततः किम् ? इत्याह [भा. ६३६९ ] आचेलक्को धम्मो, पुरिस्स य पच्छिमस्स य जिनस्स । मज्झिमगाण जिनानं, होति अचेलो सचेलो वा ।। वृ- अचेलकस्य भाव आचेलक्यम्, तदत्रास्तीति आचेलक्यः, अभ्रादेराकृतिगणत्वादप्रत्ययः । एवंविधो धर्म पूर्वस्य च पश्चिमस्य च जिनस्य तीर्थे भवति । मध्यमकानां तु जिनानामचेलः सचेलो वा भवति ॥ इदमेव भावयति [भा. ६३७०] पडिमाए पाउता वा, नऽतिक्कमंते उ मज्झिमा समणा । पुरिम-चरिमाण अमहद्धणा तु भिन्ना इमे मोत्तुं ॥ वृ- 'मध्यमाः' मध्यमतीर्थकरसत्काः साधवः 'प्रतिमया वा' नग्नतया 'प्रावृता वा' प्रमाणातिरिक्त महामूल्यादिभिर्वासोभिराच्छादितवपुषो नातिक्रामन्ति भागवतीमाज्ञामिति गम्यते । पूर्वचरमाणां तु प्रथम-पश्चिमतीर्थकरसाधूनां 'अमहाधनानि' स्वल्पमूल्यानि 'भिन्नानि च' अकृत्स्नानि, प्रमाणोपेतान्यदशकानि चेत्यर्थः, परमिमानि कारणानि मुक्त्वा ॥ तान्येवाहआसज्ज खेत्तकप्पं, वासावासे अभाविते असहू । काले अद्धाणम्मिय, सागरि तेने व पाउरणं ॥ [ भा. ६३७१ ] वृ- 'क्षेत्रकल्पं' देशविशेषाचारमासाद्याभिन्नान्यपि प्राब्रियन्ते, यथा सिन्धुविषये ताध्शानि प्रावृत्य हिण्ड्यते । वर्षावासे वा वर्षाकल्पं प्रावृत्य हिण्डयते । 'अभावितः ' शैक्षः कृत्स्नानि प्रावृतो हिण्डते यावद् भावितो भवति । असहिष्णुः शीतमुष्णं वा नाधिसोढुं शक्नोति ततः कृत्स्नं प्रावृणुयात् । 'काले वा' प्रत्यूषे भिक्षार्थं प्रविशन् प्रावृत्य निर्गच्छेत्। अध्वनि वा प्रावृता गच्छन्ति । यदि सागारिकप्रतिबद्धप्रतिश्रये स्थितास्ततः प्रावृताः सन्तः कायिकादिभुवं गच्छन्ति । स्तेना वा पथि वर्तन्ते तत उत्कृष्टोपधिं स्कन्धे कक्षायां वा विण्टिकां कृत्वा उपरि सर्वाङ्गीणं प्रावृता गच्छन्ति । एतेषु कारणेषु कृत्स्नस्योपधेः प्रावरणं कर्तव्यम् ॥ तथा [भा. ६३७२ ] निरुवहय लिंगभेदे, गुरुगा कप्पति तु कारणज्जाए । लन्न लोय रोगे, सरीरवेतावडितमादी ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org


Page Navigation
1 ... 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452