Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
बृहत्कल्प-छेदसूत्रम् -३-६/२१४
तत्र 'किं साधु' किं नाम शोभनम् ? न किञ्चिदित्यर्थः । 'दुर्गतभवं' दरिद्रकुलोत्पत्तिमिच्छत एष एव दृष्टान्त उपनेतव्यो भवति । तथाहि अनर्घ्यरत्नस्थानीयं चारित्रम्, निरुपमा-ऽनन्तानन्दमयमोक्षफलसाधकत्वात्; काचशकलस्थानीयो दुर्गतभवः, तुच्छत्वात् । ततो यश्चारित्रविक्रयेण तव्प्रार्थनं करोति स मन्दभाग्योऽनर्ध्यरत्नं विक्रीय काचशकलं गृह्णातीति मन्तव्यम् ।। अपि च[भा. ६३४६ ] संगं अनिच्छमाणो, इह-परलोए य मुच्चति अवस्सं । एसेव तस्स संगो, आसंसति तुच्छतं जं तु ॥
वृ-इहलोकविषयं परलोकविषयं च 'स' मुक्तिपदप्रतिप्रक्षभूतमभिष्वङ्गमनिच्छन्नवश्यं 'मुच्यते' कर्मविमुक्तो भवति । कः पुनस्तस्य सङ्गः ? इत्याह-एष एव तस्य सङ्गो यद् मोक्षाख्यविपुलफलदायिना तपसा तुच्छकं फलम् ' आशास्ते' प्रार्थयति ॥
४०४
तद् भूयोऽपि निदानस्यैव पर्यायकथनद्वारेण दोषमाह
[भा. ६३४७] बंधो त्ति नियाणं ति य, आससजोगो य होंति एगट्ठा । ते पुन न बोहिहेऊ, बंधावचया भवे बोही ॥
वृ-बन्ध इति वा निदानमिति वा आशंसायोग इति वा एकार्थानि पदानि भवन्ति । 'ते पुनः' बन्धादयः 'न बोधिहेतवः' न ज्ञानाद्यवाप्तिकारणं भवन्ति, किन्तु ये 'बन्धापचयाः' कारणे कार्योपचारात् कर्मबन्धस्यापचयहेतवोऽनिदानतादयस्तेभ्यो बोधिर्भवति ।। आह-यदि नाम साधवो भवं नेच्छन्ति ततः कथं देवलोकेषूत्पद्यन्ते ? उच्यते
[भा. ६३४८] नेच्छंति भवं समणा, सो पुन तेसिं भवो इमेहिं तु । पुव्वतव-संजमेहिं, कम्मं तं चावि संगेणं ॥
वृ- 'श्रमणाः' साधवो नेच्छन्त्येव भवं परं स पुनः 'भवः' देवत्वरुपस्तेषाममीभि कारणैर्भवत् । तद्यथा- पूर्वं वीतरागावस्थापेक्षया प्राचीनावस्थाभावि यत् तपस्तेन, सरागावस्थाभाविना तपसा साधवो देवलोकेषृत्पद्यन्ते इत्यर्थः एवं पूर्वसंयमेन सरागेण सामायिकादिचारित्रेण साधूनां देवत्वं भवति । कुतः ? इत्याह- "कम्मं" ति पूर्वतपः संयमावस्थायां हि देवायुदेवगतिप्रभृतिकं कर्म बध्यते ततो भवति देवेषूपपातः । एतदपि कर्म केन हेतुना बध्यते ? इति चेद् अत आह-तदपि कर्म 'सङ्गेन' संज्वलनक्रोधादिरुपेण बध्यते ॥
मू. (२१५) छव्विहा कप्पट्ठिती पन्नत्ता, तं जहा -सामाइयसंजयकप्पट्ठिती १ छेतोवट्ठावणियसंजयकप्पट्ठिती २ निव्विसमाणकप्पट्ठिती ३ निव्विट्टकाइयकप्पट्ठिती ४ जिनकप्पट्ठिती ५ थेरकप्पट्ठिति ६ त्ति बेमि ॥
वृ- अथास्य सूत्रस्य कः सम्बन्धः ? इत्याह
[ भा. ६३४९ ] पलिमंथविप्पमुक्कस्स होति कप्पो अवट्ठितो नियमा । कप्पे य अवद्वाणं, वदंति कप्पट्ठितिं थेरा ॥
वृ- अनन्तरसूत्रोक्ताः परिमन्थैर्विप्रमुक्तस्य साधोः 'अवस्थितः' सर्वकालभावी कल्पो नियमाद् भवति । यञ्च कल्पेऽवस्थानं तामेव कल्पस्थितिं 'स्थविराः' श्री गौतमादयः सूरयो वदन्ति । अतः परिमन्थसूत्रानन्तरं कल्पस्थितिसूत्रमारभ्यते ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या- 'षड्विधा' षटप्रकारा कल्पे-कल्पशास्त्रक्तसाधुसमाचारे स्थिति - अवस्थानं कल्पस्थिति कल्पस्य वा स्थितिमर्यादा कल्पस्थिति 'प्रज्ञप्ता' तीर्थकर - गणधरैः प्ररुपिता । 'तद्यथा' इति उपन्यासार्थः । 'सामायि
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452