Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 406
________________ उद्देशक : ६, मूलं - २१४, [भा. ६३४१ ] ४०३ वृ- अध्वनि स्तेनानां सिंहादीनां वा भयादप्रेक्षमाण इतश्चेतश्च विलोकमानोऽपि व्रजेत् । यदि वा अध्वनि गच्छन् सार्थिकानाम् 'आयत्तिकानां वा' सार्थचिन्तकानां धर्मं कथयति येन ते आवृत्तोः सन्तो भक्तपानाद्युपग्रहं कुर्युः । अथवा विद्या काचिदभिनवगृहीता सा 'मा विस्मरिष्यति' इति कृत्वा परिवर्तयन्ननुप्रेक्षमाणो वा गच्छेत् । 'आदिश्रुतं' पञ्चमङ्गलं तद्वा चौरादिभये परावर्तयन् व्रजेत् । 'खेदो नाम' परिश्रमः तेन आतुरीभूतो भयाद्वा सम्भ्रान्त ईर्यायामुपयुक्तो न भवेदपि । “अनाभोग” त्ति विस्मृतिवशात् सहसा वा नेर्यायामुपयोगं कुर्यात् ॥ संजोयणा पलंबातिगाण कप्पादिगो य अतिरेगो । ओमादिए वि विहुरे, जोइज्जा जं जहिं कमति ॥ [ भा. ६३४२ ] वृ- अध्वनि गच्छन्नाहारादीनां संयोजनामपि कुर्यात् । प्रलम्बादीनां विकरणकरणाय पिष्पलकादिकमति रिक्तमप्युपधिं गृह्णीयाद् धारयेद्वा । अथवा परलिङ्गेन तानि ग्रहीतव्यानि ततः परलिङ्गमपि धारयेत् । कल्पाः और्णिकादयस्तदादिकः आदिशब्दात् पात्रादिकश्च दुर्लभ उपधिरतिरिक्तोऽपि ग्रहीतव्यः । तदेवमध्वनि द्वितीयपदं भावितम् । एवम् अवमं दुर्भिक्षं तत्र आदिशब्दाद् अशिवादिकारणेषु वा 'विधुरे' आत्यन्तिकायामापदि पञ्चविधं परिमन्युभङ्गाकृत्य यद् यत्र द्वितीयपदं क्रमते तत् तत्र योजयेत् । एवं निदानपदं मुक्त्वा पञ्चस्वपि कौकुचिकादिषु परिमन्धुषु द्वितीयपदमुक्तम् ।। आह-निदाने किमिति द्वितीयपदं नोक्तम् ? उच्यते नास्ति । कुतः ? इति चेद् अत आह[भा. ६३४३] जा सालंबणसेवा, तं बीयपदं वयंति गीयत्था । आलंबनरहियं पुन, निसेवणं दप्पियं बेंति । वृ- या 'सालम्बनसेवा' ज्ञानाद्यालम्बनयुक्ता प्रतिषेवा तां द्वितीयं पदं गीतार्था वदन्ति, आलम्बनरहितां पुनः 'निषेवणां' प्रतिषेवां दर्पिकां ब्रुवते । तच्चालम्बनं निदानकरणे किमपि न विद्यते, “सव्वत्थ अनियाणया भगवया पसत्थे 'ति वचनात् ।। आह-भोगार्थं विधीयमानं निदानं तीव्रविपाकं भवतीति कृत्वा मा क्रियताम्, यत्पुनरमुना प्रणिधाने निदानं करोति-मा मम राजादिकुले उत्पन्नस्य भोगाभिष्वक्तस्य प्रव्रज्या न भविष्यतीत्यतो दरिद्रकुलेऽहमुत्पद्येयम्, तत्रोत्पन्नस्य भोगाभिष्वङ्गो न भविष्यति एवं निदानकरणे को दोषः ? सूरिराह [भा. ६३४४] एवं सुनीहरो मे, होहिति अप्प त्ति तं परिहरति । हंदि ! हु नेच्छंति भवं भववोच्छित्तिं विमग्गंता ॥ वृ- 'एवम्' अवधारणे। किमवधारयति ? दरिद्रकुले उत्पन्नस्य 'मे' ममात्माऽसंयमात् 'सुनिर्हरः' सुनिर्गमो भविष्यति, सुखेनैव संयममङ्गीकरिष्यामि इत्यर्थः; 'इति' ईशमपि यद् निदानं तदपि साधवः परिहरन्ते । कुतः ? इत्याह- 'हन्दि !' इति नोदकामन्त्रणे । हुः इति यस्मादर्थे । हे सौम्य ! यस्माद् निदानकरणेन भवानां परिवृद्धिर्भवति, सर्वोऽपि च प्रव्रज्याप्रयत्नोऽस्माकं भवव्यवच्छित्तिनिमित्तम्, ततो भवव्यवच्छित्तिं विविधैः प्रकारैर्मार्गयन्तः साधवो भवं नेच्छन्ति । अमुमेवार्थं दृष्टान्तेन द्रढयति [ भा. ६३४५] जो रयणमणग्धेयं, विक्किज्जऽ प्पेण तत्थ किं साहू । दुग्गयभवमिच्छंते, एसो चिय होति दितो ॥ वृ-यः 'अनर्घ्यम्' इन्द्रनील - मरकतादिकं रत्नम् 'अल्पेन' स्वल्पमूल्येन काचादिना विक्रीणीयात् Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452