Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 404
________________ उद्देशकः ६, मूलं-२१४, [भा. ६३३०] ४०१ वा कुर्वाणो व्रजति । यद्वा सामान्येन 'नच नैवोपयुक्तः पथि व्रजति एष चक्षुर्लोल उच्यते ॥ अस्यैते दोषाः[भा.६३३१] छक्कायाण विराहण, संजमे आयाए कंटगादीया।। आवडणे भाणभेदो, खद्धे उड्डाह परिहानी॥ वृ-अनुपयुक्तस्यगच्छतः संयमेषट्कायानां विराना भवेत्।आत्मविराधनायां कण्टकादयः पदयोलगेयुः, विषमे वा प्रदेशे आपतनं भवेत् तत्रभाजनभेदः । 'खद्धे च प्रचुरे भक्त-पाने भूमौ छर्दिते उड्डाहो भवेत्-अहो! बहुभक्षका अमी इति । भाजने च भिन्ने परिहानि' सूत्रार्थपरिमन्थो भाजनान्तरगवेषणे तत्परिकर्मणायां च भवति ॥ गतश्चक्षुर्लोलः । अथ तिन्तिणिकमाह[भा.६३३२] तितिणिए पुव्व भणिते, इच्छालोभे य उवहिमतिरेगे। लहुओ तिविहं व तहिं, अतिरेगे जे भणिय दोसा ।। वृ-तिन्तिणिक आहारोपधि-शय्याविषयभेदात् त्रिविधः, सच पूर्व' पीठिकायांसप्रपञ्चमुक्त इति नेहोच्यते। चसुन्दरमाहारादिकं गवेषयन्नेषणासमितेः परिमन्थुर्भवतीति । इच्छालोभस्तुस उच्यते यद् लोभाभिभूतत्वेनोपधिमतिरिक्तंगृह्णाति, तत्र लघुकोमासः । त्रिविधंवातत्रप्रायश्चित्तम्। तद्यथा-जघन्ये उपधौ प्रमाणेनगणनयावाऽतिरिक्तेधार्यमाणे पञ्चकम्, मध्यमे मासलघु, उत्कृष्टे चतुर्लघु।येचातिरिक्तेउपधौदोषाः पूर्वं तृतीयोद्देशके भणितास्तेद्रष्टव्याः॥अथ निदानकरणमाह[भा.६३३३] अनियाणं निव्वाणं, काऊणमुवट्टितो भवे लहुओ। पावतिधुवमायातिं, तम्हा अनियाणया सेया॥ वृ-'अनिदान' निदानमन्तरेण साध्यं निर्वाणं भगवद्भिः प्रज्ञप्तम्, ततो यो निदानं करोति तस्य तत् कृत्वा पुनरकरणेनोपस्थितस्य लघुको मासः प्रायश्चित्तम्।अपिच यो निदानं करोति स यद्यपि तेनैव भवग्रहणेन सिद्धिं गन्तुकामस्तथापि 'ध्रुवम्' अवश्यम् ‘आयाति पुनर्भवागमनं प्राप्नोति, तस्मादनिदानता श्रेयसी॥ इदमेव व्याचष्टे[भा.६३३४] इह-परलोगनिमित्तं, अवि तित्थकरत्तचरिमदेहत्तं । सव्वत्थेसु भगवता, अनिदानत्तंपसत्यं तु॥ कृइहलोकनिमित्तम्-इहैव मनुष्यलोकेऽस्य तपसः प्रभावेण चक्रवत्यार्दिभोगानहं प्राप्नुयाम्, इहैव वाभवे विपुलान् भोगानासादयेयम्' इतिरूपम्परलोकनिमित्तं-मनुष्यापेक्षया देवभवादिकः परलोकस्तत्र 'महर्द्धिकइन्द्रसामानिकादिरहं भूयासम्' इत्यादिरूपं सर्वमपि निदानं प्रतिषिद्धम्। किंबहुना? तीर्थकरत्वेन-आर्हन्त्येन युक्तंचरमदेहत्वं मे भवान्तरे भूयात् इत्येतदपिनासंशनीयम्। कुतः ? इत्याह-'सर्वार्थेषु' सर्वेष्वपि-ऐहिका-ऽऽमुष्मिकेषु प्रयोजनेषु नासंशनीयम् । कुतः ? इत्याह-'सर्वार्थेषु सर्वेष्वपि-एहिका-ऽऽमुष्मिकेषु प्रयोजनेषु अभिष्वङ्गविषयेषु भगवताऽनिदानत्वमेव 'प्रशस्तं' श्लाधितम् । तुशब्द एवकारार्थः, स च यथास्थानं योजितः ।। व्याख्याताः षडपि परिमन्थवः । साम्प्रतमेतेष्वेव द्वितीयपदमाह[भा.६३३५] बिइयपदं गेलने, धाणे चेव तह य ओमम्मि । मोत्तूणं चरिमपदं, नायव्वं जंजहिं कमति ॥ वृ-द्वितीयपदं ग्लानत्वे अध्वनि तथा अवमे च भवति, तच्च 'चरमपदं' निदानकरणरूपं [20] 26 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452