Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 397
________________ ३९४ बृहत्कल्प-छेदसूत्रम् - ३-६/२१३ दत्त्वा प्रतिक्रामति । कस्मान्न स्वपार्श्व एव स्थापयति ? इति चेद् अत आह-मा 'प्रेक्षमाणाः ' निरीक्षमाणा मृगा इव मृगा अगीतार्थाः क्षुल्लकादयः पश्येयुः, गुरुहस्ते च स्थितं न निरीक्षन्ते, अस्मद्गुरूणां समर्पितमिति विरूपसङ्कल्पाप्रवृत्तेः ॥ सम्प्रति "जयणाय जा जत्थे" ति तद्वयाख्यानार्थमाह[ भा. ६३००] सन्नी व सावतो वा, केवतितो दिज्ज अट्ठजायस्स । पुव्वुप्पन्न निहाणे, कारणजाते गहण सुद्धो ॥ वृ- यत्र 'संज्ञी' सिद्धपुत्रः श्रावको वा वर्तते तत्र गत्वा तस्मै स्वरूपं निवेदनीयं प्रज्ञापना च कर्तव्या । ततो यत् तस्य पूर्वोत्पन्नं प्रकटं निधानं तन्मध्यादसौ सिद्धपुत्रादि प्रज्ञापितः सन् तस्य 'अर्थजातस्य' द्रव्यार्थिनः साधोः कियतोऽपि भागान् दद्यात् । अस्य प्रकारस्याभावे यद् निधानं दूरमवगाढं वर्तते तदपि तेन सिद्धपुत्रादिना उत्खन्य दीयमानमधिकृते कारणजाते गृह्णानोऽपि शुद्धः, भगवदाज्ञया वर्तनात् ।। गतमवमद्वारम् । इदानीमापन्नाद्वारमाह [भा. ६३०१] थोवं पि धरेमाणी, कत्थइ दासत्तमेइ अदलंती । परदेसे वि य लब्भति, वाणियधम्मे ममेस त्ती ॥ वृ- स्तोकमपि ऋणं शेषं धारयन्ती क्वचिद्देशे काऽपि स्त्री तद् ऋणमददती कालक्रमेण ऋणवृद्धया दासत्वम् 'एति' प्रतिपद्यते । तस्या एवं दासत्वमापन्नायाः स्वदेशे दीक्षा न दातव्या । अथ कदाचित् परदेशे गता सती अज्ञातस्वरूपा अशिवादिकारणतो वा दीक्षिता भवति तत्र वणिजा परदेशे वाणिज्यार्थं गतेन दृष्टा भवेत् तत्रायं किल न्यायः- परदेशेऽपि वणिज आत्मीयं लभ्यं लभन्ते । तत एवं वणिग्धर्मे व्यवस्थिते सति स एवं ब्रूयात्-ममैषा दासी इति न मुञ्चाम्यमुमिति ॥ तत्र यत् कर्तव्यं तत्प्रतिपादनार्थं द्वारगाथामाह [भा. ६३०२ ] नाहं विदेसयाऽऽहरणमादि विज्जा य मंत जोए य । निमित्ते य राय धम्मे, पासंड गणे धणे चेव ॥ वृ- या तव् दासत्वमापन्ना वर्तते न साऽहं किन्तु अहमन्यस्मिन् विदेशे जाता, त्वं तु सध्क्षतया विप्रलब्धोऽसि । अथ सा प्रभूतजनविदिता वर्तते तत एवं न वक्तव्यं किन्तु स्थापत्यापुत्राद्याहरणं कथनीयम्, यद्यपि कदाचित् तच्छ्रवणतः प्रतिबुद्धो मुत्कलयति । आदिशब्दाद् गुटिकाप्रयोगतः स्वरभेदादि कर्तव्यमिति परिग्रहः । एतेषां प्रयोगाणामभावे विद्या मन्त्रो योगो वा ते प्रयोक्तव्या यैः परिगृहीतः सन् मुत्कलयति । तेषामप्यभावे 'निमित्तेन' अतीता - ऽनागतविषयेम राजा उपलक्षणमेतद् अन्यो वा नगरप्रधान आवर्जनीयो येन तत्प्रभावात् स प्रेर्यते । धर्मो वा कथनीयो राजादीनां येन ते आवृत्ताः सन्तस्तं प्रेरयन्ति । एतस्यापि प्रयोगस्याभावे पाषण्डान् सहायान् कुर्यात् । यद्वा यः 'गणः' सारस्वतादिको बलवांस्तं सहायं कुर्यात् । तदभावे दूराऽऽभोगादिना प्रकारेण धनुमुत्पाद्य तेन मोचयेत् । एष द्वारगाथासङ्क्षेपार्थः । साम्प्रतमेनामेव गाथां विवरीषुराह[भा. ६३०३] सारिक्खएण जंपसि, जाया अन्नत्थ ते वि आमंति । बहुजनविण्णायम्मिं, थावच्चसुतादिआहरणं ॥ वृ-यदि बहुजनविदिता सा न भवति, यथा-इयं तद्देशजाता इति; तत एवं ब्रूयात्- अहमन्यत्र विदेशे जाता, त्वं तु साद्दक्ष्येण विप्रलब्ध एवमसमञ्जसं जल्पसि । एवमुक्ते तेऽपि तत्रत्याः 'आमम्' एवमेतद् यथेयं वदतीति साक्षिणो जायन्ते । अथ तद्देशजाततया सा बहुजनविज्ञाता For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452