Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 400
________________ ३९७ उद्देशक ः ६, मूलं-२१४, [भा. ६३१२] [भा.६३१२] अहवा सव्वो एसो, कप्पो जो वन्निओ पलंबादी। तस्स उ विवक्खभूता, पलिमंथा ते उ वज्जेजा। वृ-'अथवा' इति सम्बन्ध प्रकारान्तरद्योतने।यएषषट्स्वपिउद्देशकेषुप्रलम्बादिकः 'कल्पः' समाचार उक्तः 'तस्य' कल्पस्य वपक्षभूताः परिमन्थाः' कौकुच्य-मौखर्यादयोभवन्ति, अतस्तान् वर्जयेदिति ज्ञापनार्थमधिकृतसूत्रारम्भः ॥अथवा वज्रमध्योऽयमुद्देशकः, तथाहि[भा.६३१३] आइम्मि दोन्निछक्का, अंतम्मिय छक्कगा दुवे हुँति। सो एस वइरमझो, उद्देसो होति कप्पस्स ॥ वृ-अस्मिन् षष्ठोद्देशके आदौ 'द्वेषट्के भाषाषट्क-प्रस्तारषट्कलक्षणे भवतः अन्तेऽपिच 'द्वेषट्के' परिमन्थषट्क-कल्पस्थितिषटकरूपे भवतः, ततः स एषः' कल्पोद्देशको वज्रमध्यो भवति, वज्रवदादावन्ते च द्वयोः षटकयोः सद्भावाद् विस्तीर्ण मध्ये तुसङ्क्षिप्त इत्यर्थः । तत्राचं षट्कद्वयं प्रागअभिहितमेव, अथान्त्यं षट्कद्वयमभिधीयते । तत्रापि प्रथमंतावदिदम् ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-'षड्' इति षटसङ्ख्याः ‘कल्पस्य' कल्पाध्ययनोक्तसाधुसमाचारस्य परि-सर्वतो मनन्ति-विलोडयन्तीति परिमन्थवः, उणादित्वादुप्रत्ययः, पाठान्तरेण परिमन्था वा, व्याघातका इत्यर्थः, 'प्रज्ञप्ताः' तीर्थकरादिभिः प्रणीताः । तद्यथा"कुकुइए"तति “कुचण्अवस्पन्दने" इति वचनात् कुत्सितम्-अप्रत्युपेक्षितत्वादिना कुचितम्अवस्पन्दितं यस्य स कुकुचितः, स एव प्रज्ञादिदर्शनात् स्वार्थिकाणप्रत्यये कौकुचितः; कुकुचा वा-अवस्पन्दितं प्रयोजनमस्येति कौकुचिकः; सः “संयमस्य' पृथिव्यादिरक्षणरूपस्य परिमन्थुः' व्याघातकारी १ । “मोहरिए" त्ति मुखं-प्रभूतभाषणातिशायि वदनमस्यास्तीति मुखरः, स एव मौखरिकः-बहुभाषी, विनयादेराकृतिगणत्वाद्इकणप्रत्ययः; यद्वा मुखेनारिमावहतीति व्युत्पत्त्या निपातनामौखरिकः; सत्यवचनस्य' मृषावादविरतेः परिमन्युः, मौखर्ये सतिमृषावादसम्भवात् २१चक्षुषालोलः-चञ्चलो यद्वा चक्षुलोलं यस्य स चक्षुर्लोलः; सखेदो हि अनेषणीयमपि गृह्णातीति भावः ४ । इच्छा-अभिलाषः स चासौ लोभश्च इच्छालोभः, महालोभ इत्यर्थः, यथा निद्रानिद्रा महानिद्रेति; स च इच्छालोभः-अधिकोपकरणादिमेलनलक्षणः ‘मुक्तिमार्गस्य' मुक्तिनिष्परिग्रहत्वम् अभतेत्यर्थः सैव निवृतिपुरस्य मार्ग इव मार्गस्तस्य परिमन्थुः ५ । “भिज्ज"त्ति लोभस्तेन यनिदानकरणं-देवेन्द्र-चक्रवत्यादिविभूतिप्रार्थनं तद् 'मोक्षमार्गस्य सम्यग्दर्शनादिरूपस्य परिमन्थुः, आर्तध्यानचतुर्थभेरूपत्वात्। भिजाग्रहणेन यदलोभस्य भवनिर्वेद-मार्गानुसारितादिप्रार्थनं तत्रमोक्षमार्गस्य परिमन्थुरित्यावेदितंप्रतिपत्तव्यम् । ननुतीर्थकरत्वादिप्रार्थनंन राज्यादिप्रार्थनवद् दुष्टम्, अतस्तद्विषयं निदानं मोक्षस्य परिमन्थुन भविष्यति, नैवम्, यत आह-“सव्वत्थे" त्यादि 'सर्वत्र' तर्थकरत्व-चरमदेहत्वादिविषयेऽपि आस्तांराज्यादौ 'निदानता' अप्रार्थनमेव भगवता' समग्रैश्वर्यादिमता श्रीमन्महावीरस्वामिना “पसत्थ"त्ति 'प्रशंसिता' श्लाधिता। एष सूत्रार्थः॥ अथ नियुक्तिविस्तरः[भा.६३१४] पलिमंथे निक्खेवो, नामा एगट्ठिया इमे पंच । पलिमंथो वक्खेवो, वक्खोड विनास विग्यो य॥ वृ-'परिमन्थे परिमन्थपदस्य निक्षेपश्चतुर्धाकर्तव्यः । तस्य चामूनिपञ्च एकार्थिकानि भवन्तिपरिमन्थो व्याक्षेपो व्याखोटो विनाशो विघ्नश्चेति । स च परिमन्थश्चतुर्द्धा-नाम-स्थापना-द्रव्य Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452