Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 401
________________ बृहत्कल्प-छेदसूत्रम् -३-६/२१४ ३९८ भावभेदात् । तत्र नाम-स्थापने सुगमे । द्रव्य-भावपरिमन्थौ प्रतिपादयति[भा. ६३१५] करणे अधिकरणम्मि य कारग कम्मे य दव्वपलिमंथो । एमेव य भावम्मि वि, चउसु वि ठाणेसु जीवे तु ॥ वृ- 'करणे' साधकतमे 'अधिकरणे' आधारे कारकः कर्ता तस्मिन् तथा 'कर्मणि च ' व्याप्ये द्रव्यतः परिमन्थो भवति । तथाहि करणे येन मन्थानादिना दध्यादिकं मध्यते, अधिकरणे यस्यां पृथिवीकायनिष्पन्नायां मन्थन्यां दधि मध्यते, कर्तरि यः पुरुषः स्त्री वा दधि विलोडयति, कर्मणि तन्मध्यमानं यद् नवनीतादिकं भवति, एष चतुर्विधो द्रव्यपरिमन्थः । एवमेव 'भावेऽपि' भावविषयः परिमन्यश्चतुर्ष्वपि करणादिषु स्थानेषु भवति । तद्यथा- करणे येन कौत्कुच्यादिव्यापारेण दधितुल्यः संयमो मथ्यते, अधिकरणे यस्मिन् आत्मनि स मध्यते, कर्तरियः साधुः कौत्कुच्यादिभावपरिणतस्तं संयमं मथ्नाति कर्मणि यद् मध्यमानं संयमादिकमसंयमादितया परिणमते । एष चतुर्विधोऽपि परिमन्थो जीवादनन्यत्वाद् जीव एव मन्तव्यः ॥ अथ करणे द्रव्य-भावपरिमन्थौ भाष्यकारोऽपि भावयति [भा.६३१६] दव्वम्मि मंथितो खलु, तेनं मंथिज्जए जहा दधियं । दघिल्लो खलु कप्पो, मंथिज्जति कोकुआदीहिं ॥ वृ-द्रव्यपरिमन्थो मन्थिकः, मन्थान इत्यर्थः, 'तेन' मन्थानेन यथा दधि मध्यते तथा दधितुल्यः खलु 'कल्पः' साधुसमाचारः कौकुचिकादिभिः प्रकारैर्मथ्यते, विनाश्यत इत्यर्थः । तदेवं व्याख्यातं परिमन्थपदम् । सम्प्रति शेषाणि सूत्रपदानि कौत्कुचिकादीनि व्याचिख्यासुराह [भा. ६३१७] कोकुइओ संजमस्स उ, मोहरिए चैव सच्चवयणस्स । इरियाए चक्खुलोलो, एसणसमिईए तिंतिनिए । वृ- कौकुचिकः संयमस्य, मौखरिकः सत्यवचनस्य, चक्षुर्लोलईर्यासमितेः, तिन्तिणित एषणासमितेः परिमन्धुरिति प्रक्रमादवगम्यते ।। [ भा. ६३१८] नासेति मुत्तिमग्गं, लोभेण निदानताए सिद्धिपहं । एतेसिं तु पदाणं, पत्तेय परूवणं वोच्छं ॥ वृ-लोभेन च मुक्तिमार्गं नाशयति, निदानतया तु सिद्धिपथम् । एतेषां पदानां प्रत्येकं प्ररूपणां वक्ष्ये ॥ प्रतिज्ञातमेव करोति [ भा. ६३१९] ठाणे सरीर भासा, तिविधो पुन कुक्कुओ समासेणं । चलणे देहे पत्थर, सविगार कहकहे लहुओ ॥ आणाइणो य दोसा, विराधना होइ संजमा - SSयाए । जं व नट्टिया वा, विराधन मइल्लए सुत्ते ॥ [ भा. ६३२०] वृ- 'स्थाने' स्थानविषयः शरीरविषयो भाषाविषयश्चेति त्रिविधः समासेन कौकुचिकः । तत्र स्थानकौकुचिको यश्चलनम्-अभीक्ष्णं भ्रमणं करोति । देहः शरीरं तद्विषयः कौकुचिको यः प्रस्तरान् हस्तादिना क्षिपति । यस्तु 'सविकारं' परस्य हास्योत्पादकं भाषते, 'कहक्कहं वा' महता शब्देन हसति स भाषाकौकुचिकः । एतेषु त्रिष्वपि प्रत्येकं मासलघु, आज्ञादयश्च दोषाः । संयमे आत्मनि च विराधना भवति । यन्त्रकवद् नर्तिकावद्वा भ्राम्यन् (स्थान- शरीर ] कौकुचिक उच्यते । यस्तु महता शब्देन हसति तस्य मक्षिकादीनां मुखप्रवेशेन संयमविराधना शूलादि रोगप्रकोपेनात्मविराधना । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452