Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 399
________________ ३९६ बृहत्कल्प-छेदसूत्रम् -३-६/२१३ नैतावत् समं तुलति।स प्राह-एकेन संवत्सरेण हीन प्रयच्छतुः तदपि प्रतिषेधनीयः। ततो ब्रूयात्द्वाभ्यां संवत्सराभयां हीन दत्त; तदपि निषेध्यः । एवं तावद् विभाषा कर्तव्या यावद् ‘एकेन दिवसेन कृतोऽनया दर्मस्तं प्रयच्छत' ततो वक्तव्यम्-नाभ्यधिकं दद्मः किन्तु यावत् तव गृहीतं मुहूर्तादिकृतेन धर्मेण तोल्यमानं समं तुलति तावत्प्रयच्छामः । एवमुक्ते यदि तोलनाय ढौकते तदा विद्यादिभिस्तुला स्तम्भनीया येन क्षणमात्रकृतेनापिधर्मेण सहन समंतोलयतीति।धर्मतोलनं च धर्माधिकरणिक-नीतिशास्त्रपिद्धमिति ततोऽवसातव्यम् । अथासौ क्षणमात्रकृतस्यापि धर्मस्यालाभात् तपो ग्रहीतुं नेच्छेत् ततो वक्तव्यम्-एषा वणिग्न्यायेन शुद्धा ॥ स प्राह-कः पुनर्वणिग्न्यायो येनैषा शुद्धा क्रियते? साधवो ब्रुवते[भा.६३०९] वत्थाणाऽऽभरणाणि य, सव्वं छड्डेउ एगवत्थेणं । पोतम्मि विवन्नम्मिं, वाणितधम्मे हवति सुद्धो॥ वृ-यथा कोऽपि वाणिजः प्रभूतं ऋणं कृत्वा प्रवहणेन समुद्रमवगाढः, तत्र ‘पोते' प्रवहणे विपन्ने आत्मीयानि परकीयानि च प्रभूतानि वस्त्राण्याभरणानि चशब्दात् शेषमपि च नानाविधं क्रयाणकं सर्वं 'छर्दयित्वा' परित्यज्य ‘एकवस्त्रण' एकेनैव परिधानवाससा उत्तीर्ण 'वणिग्धर्मे' वणिग्न्याये 'शुद्धो भवति' न ऋणं दाप्यते । एवमियमपि साध्वी तव सत्कमात्मीयं च सारं सर्व परित्यज्य निष्कान्ता संसारसमुद्रादुत्तीर्णा इतिवणिग्धर्मेण शुद्धा, नधनिका ऋणमात्मीयं याचितुं लभन्ते, तस्माद् न किञ्चिदत्र तवाभाव्यमस्तीति करोत्विदानीमेषा स्वेच्छया तपोवाणिज्यम्, पोतपरिभ्रष्टवणिगिव निऋणो वाणिज्यमिति ॥ सम्प्रत्युपसंहारव्याजेन शिक्षामपवादं चाह[भा.६३१०] तम्हा अपरायत्ते, दिक्खेज्ज अनारिए य वजेज्जा । ___अद्धाण अनाभोगा, विदेस असिवादिसू दो वी॥ वृ-यस्मात् परायत्तदीक्षणेऽनार्यदेशगमने चैते दोषास्तस्मादपरायत्तान् दीक्षयेत् अनार्यांश्च देशान् बोधिक-स्तेनबहुलान् वर्जयेत् । अत्रैवापवादमाह-“अद्धाण"त्ति अध्वानं प्रतिपत्रस्य ममोपग्रहमेते करिष्यन्तीति हेतोः परायत्तानपि दीक्षयेत्, यदिवाऽनाभोगतःप्रव्राजयेत्, विदेशस्था वास्वरूपमजानानादीक्षयेयुः ।अशिवादिषुपुनः कारणेषु “दोवि"ति द्वे अपि' परायत्तदीक्षणाऽनार्यदेशगमने अपिकुर्यात् । किमुक्तं भवति? -अशिवादिषु कारणेषुसमुपस्थितेषुपरायत्तानपि गच्छोपग्रहनिमित्तं दीक्षयेत्, अनार्यानपिच देशान् विहरेदिति॥ मू. (२१४) छ कप्पस्स पलिमंथू पन्नत्ता, तं जहा-कोक्कुइए संजमस्स पलिमंथू १ मोहरिए सच्चवयणस्स पलिमंथू २ चक्खुलोलए इरियावहियाए पलिमंथू ३ तितिनिए एसणागोयरस्स पलिमंथू४इच्छालोभए मुत्तिमग्गस्स पलिमंथू५ भिजानियाणकरणेमोक्खमग्गस्स पलिमंथू। सव्वत्थ भगवता अनियाणया पसत्था॥ वृ-अस्य सूत्रस्य कः सम्बन्धः? इत्याह[भा.६३११] दप्पेण जो उ दिक्खेति एरिसे एरिसेसु वा विहरे। तत्थ धुवो पलिमंथो, को सो कतिभेद संबंधो॥ वृ-'दर्पण' कारणमन्तरेणयआचार्य ईशान् परायत्तान्दीक्षयति, योवा 'ईदृशेषु' अनार्येषु देशेषु दर्पतो विहरति, तत्र 'ध्रुवः' निश्चितोऽवश्यम्भावी परिमन्थः, अतः कोऽसौ कतिभेदो वा परिमन्थः ? इत्याशङ्कानिरासाय प्रस्तुतसूत्रारम्भः । एष सम्बन्धः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452