Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशक : ६, मूलं- २१३, [भा. ६२९४ ]
"सेहोवट्ठ” इत्यादि । शैक्षः कश्चिदुपस्थितः तस्य यद् 'विचित्रं' बहुवधमर्थजातं क्वापिस्थापितमस्ति, यदि वा गच्छान्तरे यः कोऽपि शैक्ष उपस्थितः तस्य हस्ते यद् द्रव्यमवतिष्ठते तद् गृहीत्वा तस्मै दीयते । अथवा 'तेनैव' पित्रा 'अन्येन वा' साधुना निष्क्रामता यद् द्रव्यजातं कचित् पूर्वं 'निहितं' स्थापितमस्ति तद् आनीय तस्मै दीयते । तदभावे को विधि: ? इत्याह
[ भा. ६२९५ ] नीयल्लगाण तस्स व, भेसण ता राउले सतं वा वि । अविरिक्का मो अम्हे, कहं व लज्जा न तुज्झं ति ॥
वृ- 'निजकानाम्' आत्मीयानां स्वजनानां भेषणं कर्तव्यम्, यथा-वयं 'अविरिक्ताः' अविभक्तरिक्था वर्तामह ततो मोचयत मदीयां दुहितरम्, कथं वा युष्माकं न लज्जा अभूत् यद् एवं मदीया पुत्रिका दासत्वमापन्नाऽद्यापि धृता वर्तते ? । अथवा येन गृहीता वर्तते तस्य भेषणं विधेयम्, यथा-यदि मोचयसि तर्हि मोचय, अन्यथा भवतस्तं शापं दास्यामि येन न त्वं नेदं वा तव कुटुम्बकमिति । एवं भेषणेऽपि कृते यदि न मुञ्चति यदि वा ते स्वजना न किमपि प्रयच्छन्ति तदा स्वयं राजकुले गत्वा निजकैः सह व्यवहारः करणीयः, व्यवहारं च कृत्वा भाग आत्मीयो गृहीत्वा तस्मै दातव्यः । यद्वा स एव राजकुले व्यवहारेणाकृष्यते, तत्र च गत्वा वक्तव्यम्, यथा- इयमृषिकन्या व्रतं जिघृक्षु केनापि कपटेन धृताऽनेन वर्तते, यूयं च धर्मव्यापारनिषन्नाः, ततो यथा इयं धर्ममाचरति यथा चामीषामृषीणां समाधिरुपजायते तथा यतध्वमिति ॥ ततः
[ भा. ६२९६ ] नीयल्लएहि तेन व, सद्धिं ववहार कातु मोदनता । जं अंचितं व लिंगं, तेन गवेसित्तु मोदेइ ॥
३९३
वृ- एवं निजकैस्तेन वा सार्द्धं व्यवहारं कृत्वा तस्या मोचना कर्तव्या । अस्यापि प्रकारस्याभावे यद् यत्र लिङ्गमर्चितं तत् परिगृह्णाति । ततः 'तेन अर्चितलिङ्गेन तल्लिङ्गधारिणां मध्ये य महान्तस्तत्पार्श्वोद् गवेषयित्वा तां मोचयन्ति ॥ अथ “दूराऽऽभोगे" त्यादिव्याख्यानार्थमाह[भा. ६२९७] पुट्ठा व अपुट्ठा वा, चुतसामिणिहिं कहिंति ओहादी । घेत्तूण जावदट्ठ, पुनरवि सारक्खणा जतणा ।।
वृ- यदि वा 'अवध्यादयः' अवधिज्ञानिनः, 'च्युतस्वामिनिधिम्' उच्छिन्नस्वामिकं निधिं कथयन्ति, तदानीं तेषां तत्कथनस्योचितत्वात् । ततः 'यावदर्थं' यावता प्रयोजनं तावद् गृहीत्वा पुनरपि तस्य निधेः संरक्षणं कर्तव्यम् । प्रत्यागच्छता च यतना विधेया, सा चाग्रे स्वयमेव वक्ष्यते । [ भा. ६२९८ ] सोऊण अट्ठजायं, अहं पडिजग्गती उ आयरिओ ।
संघाडगं च देती, पडिजग्गति नं गिलाणं पि ॥
- निधिग्रहणाय मार्गे गच्छन्तं तम् 'अर्थजातं' साधुं श्रुत्वा साम्भोगिकोऽसाम्भोगिको वाऽऽचार्योऽर्थं 'प्रतिजागर्ति' उत्पादयति । यदि पुनः तस्य द्वितीयसङ्घाटको न विद्यते ततः सङ्घाटकमपि ददाति । अथ कथमपि स ग्लानो जायते ततस्तं ग्लानमपि सन्तं प्रतिजागर्ति न तूपेक्षते, जिनाज्ञाविराधनप्रसक्तेः ॥ यदुक्तमनन्तरं “यतना प्रत्यागच्छता कर्तव्या" तामाह[भा. ६२९९] काउं निसीहियं अट्ठजातमावेदणं गुरुहत्थे । दाऊण पडिक्कमते, मा पेहंता मिया पासे ।।
वृ-यत्रान्यगणे स प्राघूर्णिक आयाति तत्र नैषेधिकीं कृत्वा 'मः क्षमाश्रमणेभ्यः' इत्यादि कृत्वा चमध्ये प्रविशति, प्रविश्य च यद् अर्थजातं तद् गुरुभ्य आवेदयति, आवेद्य च तदर्थजातं गुरुहस्ते
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452