Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 394
________________ उद्देशक : ६, मूलं-२१३, [भा. ६२८५] ३९१ मां ग्लानां सतीं प्रतिचरिष्यति' इतिनिमित्तं द्व्यक्षरिका दीक्षिता भवति, सा च पश्चाद् दायकैः प्रतिगृह्येत तस्या वोत्तमार्थप्रतिपन्नाया मूलं 'आयान्ती' आगच्छन्ती बोधिकादिना स्तेनेन यदि ह्रियते अतस्तां प्रति अर्थजातसूत्रावकाशः ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-सा च प्राग्वत् ॥ साम्प्रतमर्थजातशब्दव्युत्पत्तिप्रतिपादनार्थमाह [भा. ६२८६ ] अद्वेण जीए कज्जं, संजातं एस अट्ठजाता तु । तं पुन संजमभावा, चालिजंती समवलंबे ॥ वृ- 'अर्थेन' अर्थितया सञ्जातं कार्यं यया यद्वा अर्थेन द्रव्येण जातम् उत्पन्नं कार्यं यस्याः सा अर्थजाता, गमकत्वादेवमपि समासः । उपलक्षणमेतत्, तेनैवमपि व्युत्पत्ति कर्तव्या - अर्थ - प्रयोजनं जातोऽस्या इत्यर्थः जाता । कथंपुनरस्या अवलम्बनं क्रियते ? इत्याह- 'तां पुनः ' प्रथमव्युत्पत्तिसूचितां संयमभावात् चाल्यमानां द्वितीय तृतीयव्युत्पत्तिपक्षे तु द्रव्याभावेन प्रयोजनानिष्पत्त्या वा सीदन्तीं 'समवलम्बेत' साहाय्यकरणेन सम्यग् धारयेत्, उपलक्षणत्वाद् गृह्णीयादपि ।। अथ नियुक्तिकारो येषु स्थानेषु संयमस्थिताया अप्यर्थजातमुत्पद्यते तानि दर्शयितुमाह [भा. ६२८७ ] सेवगभज्जा ओमे, आवन्न अनत्त बोहिये तेने । एतेहि अट्ठजातं, उप्पज्जति संजमठिताए ॥ वृ- 'सेवकभार्यायां ' सेवकभार्याविषयम्, एवम् 'अवमे' दुर्भिक्षे, “आवन्ने” ति दासत्वप्राप्तायाम्, “अनत्ते”ति ऋणार्तायां परं विदेशगमनादुत्तमर्णेनानाप्तायाम्, तथा 'बोधिका' अनार्या म्लेच्छाः 'स्तेनाः' आर्यजनपदजाता अपि शरीरापहारिणस्तैरपहरणे च, एतैः कारणैरर्थतं संयमस्थिताया अपि उत्पद्यते । एष निर्युक्तिगाथासङ्क्षेपार्थः । साम्प्रतमेनामेव विवरीषुः सेवकभार्याद्वारमाह[भा. ६२८८] पियविप्पयोगदुहिया, निक्खंता सो य आगतो पच्छा । अगिलाणिं च गिलाणिं, जीवियकिच्छं विसज्जेति ॥ वृ- कोऽपि राजादीनां सेवकः, तेन राजसेवाव्यग्रेणात्मीया भार्या परिष्ठापिता, ततः सा प्रियविप्रयोगदुःखिता 'निष्क्रान्ता' तथारूपाणां स्थविराणामन्तिके प्रव्रजिता, स च पुरुषः पश्चात् तयाऽर्थी जातस्ततस्तस्याः सकाशमागतः पुनरपि तां मार्गयति ततः को विधि ? इत्याहअग्लानामपि तां ‘ग्लानां' ग्लानवेषां कुर्वन्ति, विरेचनादीनि च तस्याः क्रियन्ते, ततोऽसौ 'जीवितकृच्छ्रां' 'कृच्छ्रेणेयं जीवति' इतिबुद्धया विसर्जयति । अत्रैव द्वितीयमुदाहरणमाह[भा. ६२८९ ] परिग्गहियागणियाऽविसज्जिया सामिणा विनिक्खता । बहुगं मे उवउत्तं, जति दिज्जति तो विसज्जेमि ॥ वृ- न विद्यते परिग्रहः कस्यापि यस्याः साऽपरिग्रहा, सा चासौ गणिका चापरिग्रहगणिका, सायेन सममुषितवतीस देशान्तरं गतः, ततस्तेन अविसर्जिता सती 'विनिष्क्रान्ता' प्रव्रजिता । अन्यदा च स स्वामी समागतो भणति बहुकं 'मे' मदीयं द्रव्यमनया 'उपयुक्तम्' उपयोगं नीतम्, भुक्तमित्यर्थः, तद् यदि दीयते ततो विसृजामि । एवमुक्ते यत् कर्तव्यं स्थविरैस्तदाह[भा. ६२९० ] सरभेद वन्नभेदं, अंताणं विरेयणं वा वि । वरधनुग पुस्सभूती, गुलिया सुहुमे य झाणम्मि ।। वृ-गुटिकाप्रयोगतस्तस्या- स्वरभेदं वर्णभेदं वा स्थविराः कुर्वन्ति यथा सं तां न प्रत्यभिजानाति । यदि वा ग्रामान्तरादिप्रेषणेन 'अन्तर्धानं' व्यवधानं क्रियते । अथवा तथाविधौषधप्रयोगतो विरेचनं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452