Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ६, मूलं-२०९, [भा. ६२७६]
३८९ 'प्रकम्पितां वा' तद्भयप्रकम्पमानशरीरां रक्षेत् । यदि पुनर्न रक्षति सत्यपि बले ततोऽरक्षणे प्रायश्चित्तं 'गुरुकाः' चत्वारो गुरुका मासाः ॥
मू. (२१०) साहिगरणं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिक्कमइ । वृ-अस्य सूत्रस्य सम्बन्धमाह[भा.६२७७] अभिभवमाणो समणिं, परिग्गहो वा से वारिते कलहो।
किंवा सति सत्तीए, होइ सपक्खे उविक्खाए॥ वृ-'श्रमणी' साध्वीमभिभवन् गृहस्थो यदि वा "से" 'तस्य' गृहस्थस्य 'परिग्रहः' परिजनः, स चाऽभिभवन् वारितः कलहं श्रमण्या सार्द्धं कुर्यात् ततो य उपशामनालब्धिमान् साधुस्तेन कलह उपशमयितव्यः, न पुनरुपेक्षा विधेया । कुतः? इत्याह-किं वा सत्यां शक्तौ 'स्वपक्षे' स्वपक्षस्योपेक्षया? नैवकिञ्चिदितिभावः केवलं स्वशक्तिनैष्फल्यमुपेक्षानिमित्तप्रायश्चित्तापत्तिश्च भवति, तस्मादवश्यं स्वशक्ति परिस्फोरणीया। एतत्प्रदर्शनार्थमधिकृतसूत्रमारभ्यते ॥
अस्य व्याख्या प्राग्वत्॥अत्र भाष्यम[भा.६२७८] उप्पन्ने अहिगरणे, ओसमणं दुविहऽतिक्कम दिस्स।
अनुसासण भेस निरंभणा य जो तीए पडिपक्खो॥ वृ-संयत्या गृहस्थेन सममधिकरणे उत्पन्ने द्विविधमतिक्रमंदृष्टवा तस्याधिकरणस्य व्यवशमनं कर्तव्यम् । किमुक्तं भवति?-स गृहस्थोऽनुपशान्तः सन् तस्याः संयत्याः संयमभेदं जीवितभेदं चेति द्विविधमतिक्रमं कुर्यात् तत उपशमयितव्यमधिकरणम् । कथम् ? इत्याह-यः तस्याः' संयत्याः 'प्रतिपक्षः' गृहस्थस्तस्य प्रथमतः कोमलवचनैरनुशासनं कर्तव्यम्, तथाऽप्यतिष्ठति 'भीषणं' भापनं कर्तव्यम्, तथाऽप्यभिभवतो 'निरुम्भणं' यस्य या लब्धिस्तेन तया निवारणं कर्तव्यम् ॥
मू. (२११) सपायच्छित्तं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिकमइ ।। वृ-अस्य सम्बन्धमाह[भा.६२७९] आहगरणम्मि कयम्मि, खामिय समुपट्टिताए पच्छित्तं।।
तप्पढमताए भएणं, होति किलंता व वहमाणी॥ वृ- अधिकरणे कृते क्षामिते च तस्मिन् समुपस्थितायाः प्रायश्चित्तं दीयते, ततः साधिकरणसूत्रानन्तरं प्रायश्चित्तसूत्रमुक्तम् ॥ अस्य व्याख्या-प्राग्वत् ॥ सा सप्रायश्चित्ता 'तप्रथमतायां' प्रथमतः प्रायश्चित्ते दीयमाने 'भयेन' 'कथमहमेतत् प्रायश्चित्तं वक्ष्यामि ?' इत्येवंरूपेण विषन्ना भवेत्, यदि वा प्रायश्चित्तं वहन्ती तपसा क्लान्ता भवेत् ।। तत्रेयं यतना[भा.६२८०] पायच्छित्ते दिने, भीताए विसज्जणं किलंताए।
अनुसहि वहंतीए, भएण खित्ताइ तेइच्छं। वृ-प्रायश्चित्ते दत्ते यदि बिभेति ततस्तस्या भीतायाः क्लान्तायाश्च विसर्जनम्, प्रायश्चित्तं मुत्कलं क्रियत इत्यर्थः । अथ वहन्ती क्लाम्यति ततस्तस्या वहन्त्या अनुशिष्टिर्दीयते, यथा-मा भैषीः, बहुगतम्, स्तोकं तिष्ठति, यदि वा वयंसाहाय्यं करिष्यामइति।अथवमनुशिष्यमाणाऽपि भयेन क्षिप्तचित्ता भवति ततस्तस्याः 'चैकित्स्यं चिकित्सायाः कर्म कर्तव्यम् ।
मू. (२१२) भत्त-पानपडियाइखियं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिकमइ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452