Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 391
________________ ३८८ बृहत्कल्प-छेदसूत्रम् -३-६/२०९ वृ-विद्यादिभिः 'अभियोगः' अभियुज्यमानता । एष पुनः द्विविधः' द्विप्रकारः, तद्यथामानुषिको दैवश्च । तत्र मनुष्येण कृतो मानुषिकः । देवस्यायं तेन कृतत्वा दैवः । तत्र देवकृतो मनुष्यकृतो वा विद्यादिभिरभियोग एष एव यत् तस्मिन् दूरस्थितेऽपि तप्रभावात् सा तथारूपा उन्मत्ता जायते । अथ तं' विद्याद्याभियोगं दैवं मानुषिकं वा कतं जानन्ति? । सूरिराह-तयोर्देवमानुषयोर्मध्ये यस्य नाम साऽभियोजिता गृह्णाति तत्कृतः स विद्याद्यभियोगो ज्ञेयः॥ साम्प्रतं “अनुसासणा लिहावण" इत्येतद् व्याख्यानयति[भा.६२७२] अनुसासियम्मिअठिए, विद्देसंदेंति तह विय अठंते। जक्खीए कोवीणं, तीसे पुरओ लिहावेंति॥ वृ- येन पुरुषेण विद्यादि अभियोजितं तस्यानुशासना क्रियते । अनुशासितेऽप्यस्थिते विद्याप्रयोगतस्तां विवक्षितां साध्वी प्रति तस्य विद्याद्यभियोक्तुर्विद्वेथषं ददति' उत्पादयन्ति वृषभाः। तथापि च तस्मिन् अतिष्ठति ‘यक्ष्या' शुन्या तदीयं कौपीनं तस्याः पुरतो विद्याप्रयोगतो लेहयन्तियेन सा तद् दृष्ट्वा तस्येदं सागारिकमितिजानाना विरज्यते॥सम्प्रति प्रतिविद्याप्रयोगे हेढादरताख्यापनार्थमाह[भा.६२७३] विसस्स विसमेवेह, ओसहं अग्गिमग्गिणो। मंतस्स पडिमंतो उ, दुञ्जनस्स विवजणं॥ वृ-विषस्यौषधं विषमेव, अन्यथा विषानिवृत्तेः । एवमग्नेर्भूतादिप्रयुक्तस्यौषधमग्नि।मन्त्रस्य प्रतिमन्त्रः । दुर्जनस्यौषधं विवर्जन' ग्राम-नगरपरित्यागेन परित्यागः । ततो विद्याद्यभियोगे साधु-साध्वीरक्षणाथ प्रतिविद्यादि प्रयोक्तव्यमिति॥ [भा.६२७४] जइ पुहोज गिलाणी, निरुब्ममाणी उतो से तेइच्छं। संवरियमसंवरिया, उवालभंते निसिं वसभा॥ वृ-यदि पुनर्विद्याधभियोजिता तदभिमुखं गच्छन्ती निरुध्यमाना ग्लाना भवति ततः "से" 'तस्याः' साध्व्याश्चिकित्सां 'संवृताः' केनाप्यलक्ष्यमाणाः कुर्वन्ति । तथा 'असंवृताः' येन विद्याधभियोजितं तस्य प्रत्यक्षीभूता वृषभाः 'निशि' रात्रौ तं उपालभन्ते भेषयन्ति पिट्टयन्ति च तावद् यावद् असौ तां मुञ्चतीति ।। "खमए महुर"त्ति अस्य व्याख्यानमाह[भा.६२७५] थूभमह सड्डिसमणी, बोहिय हरणंतु निवसुताऽऽतावे। मझेण य अकंदे, कयम्मि जुद्धेण मोएति॥ वृ-महुरानयरीएथूभो देवनिम्मितो।तस्स महिमानिमित्तं सहीतो समणीहिं समं निग्गयातो। रायपुत्तोय तत्थ अदूरे आयावंतो चिट्ठइ । ताओ सड्डी-समणीओ बोहिएहिं गहियाओ तेनं-तेनं आनियाओ।ताहिं तं साहुंदणं अक्कंदो कओ।तओरायपुत्तेण साहुणा जुद्धं दाऊणमोइयाओ। अक्षरगमनिका त्वियम्-स्तूपस्य महे महोत्सवे श्राद्धिकाः श्रमणीभिसह निर्गताः। तासां बोधिकैः' चौरैर्हरणम् । नृपसुतश्च तत्रादूरे आतापयति । बौधिकैश्च तास्तस्य मध्येन नीयन्ते । ताभिश्च तं दृष्टवाऽऽक्रन्दे कृतेस युद्धेन तेभ्यस्ता मोचयति।उक्तो मानुषिक उपसर्ग ।सम्प्रति तैरश्चमाह[भा.६२७६] गामेनाऽऽरण्णे व, अभिभूतं संजतिं तु तिरिगेणं । ____थद्धं पकंपियं वा, रक्खेज अरक्खणे गुरुगा। वृ-ग्राम्येणाऽऽरण्येन वा तिरश्चाऽभिभूतां संयतीं यदि वा 'स्तब्धां' तद्भयात् स्तम्भीभूतां Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452