Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 390
________________ उद्देश : ६, मूलं - २०८, [भा. ६२६६ ] ३८७ विरागो भवति । अथासौ नटः स्वभावत एव रूपवान्- अतिशायिना उद्भटरूपेण युक्तस्ततस्तस्य भक्तं मदनफलमिश्रादिकं तद् दीयते येन भुक्तेन तस्याः पुरतः 'छर्दयति' उद्वमति, उद्वमनं च कुर्वन् किलासौ जुगुप्सनीयो भवति ततः सा तं दृष्ट्वा विरज्यत इति ।। गुज्झंगम्मि उ वियडं, पज्जावेऊण खरगमादीणं । तद्दायणे विरागो तीसे तु हवेज दवणं ॥ [भा. ६२६७ ] वृ-यदि पुनः कस्या अपि गुह्याङ्गविषय उन्मादो भवति न रूप-लावण्याद्यपेक्षः ततः 'खरकादीनां' द्व्यक्षरकप्रभृतीनां 'विकटं' मद्यं पाययित्वा प्रसुप्तीकृतानां पूतिमद्योद्गालखरण्टितसर्वशरीराणामत एव मक्षिकाभिणिभिणायमानानां तद्दायणे "त्ति तस्य गुह्याङ्गस्य मद्योद्गालादिना बीभत्सीभूतस्य दर्शना क्रियते । तच्च दृष्टवा तस्या आर्यिकाया विरागो भवेत् ततः प्रगुणीभवति ॥ मू. (२०९) उवसग्गपत्तं निग्गंथिं निग्गंथे गिण्हमाणे वा २ नातिक्कमइ ॥ वृ- अस्य सम्बन्धमाह[ भा. ६२६८ ] मोहेन पित्ततो वा, आतासंवेतिओ समक्खाओ । एसो उ उवसग्गो, अयं तु अन्नो परसमुत्थो । वृ- 'मोहेन' मोहनीयोदयेनेत्यर्थः 'पित्ततो वा' पित्तोदयेन य उन्मत्तः सः 'आत्मसंवेदिकः' आत्मनैवात्मनो दुःखोत्पादकः समाख्यातः, यच्चात्मनैवात्मदुः खोत्पादनमेष आत्मसंवेदनीय उपसर्गः । ततः पूर्वमात्मसंवेदनीय उपसर्ग उक्तः । तत उपसर्गाधिकारादयमन्यः परसमुत्थ उपसर्गोऽनेन प्रतिपाद्यत इति ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या-सा च प्राग्वत् । तत्रोपसर्गप्रतिपादनार्थमाह[भा. ६२६९ ] तिविहे य उवसग्गे, दिव्वे मानुस्सए तिरिक्खे य । दिव्वे य पुव्वभणिए, मानुस्से आभिओग्गे य ॥ वृ-त्रिविधः खलु परसमुत्थ उपसर्गः । तद्यथा दैवो मानुष्यकस्तैरश्चश्च । तत्र 'दैवः' देवकृतः 'पूर्वम्' अनन्तरसूत्रस्याधस्ताद् द्भणितः, 'मानुष्यः पुनः' मनुष्यकृतः ‘आभियोग्यः’विद्याद्यभियोगजनितस्तावद् भण्यते ॥ [भा. ६२७० ] विज्जाए मंतेन व, चुन्त्रेण वजोतिया अणप्पवसा । अनुसासणा लिहावण, खमए मधुरा तिरिक्खाती ॥ वृ- विद्यया वा मन्त्रेण वा चूर्णेन वा 'योजिता' सम्बन्धिता सती काचिदनात्मवशा भवेत् तंत्र 'अनुशासना' इति येन रूपलुब्धेन विद्यादि प्रयोजितं तस्यानुशिष्टि क्रियते, यथा-एषा तपस्विनी महासती, न वर्तते तव तां प्रति ईशं कर्तुम्, एवंकरणे हि प्रभूततरपापोपचयसम्भव इत्यादि । अथैवमनुशिष्टोऽपि न निवर्तते तर्हि तस्य तां प्रतिविद्यया विद्वेषणमुत्पाद्यते । अथ नास्ति ताशी प्रतिविद्या ततः ‘“लिहावण' त्ति तस्य सागारिकं विद्याप्रयोगतस्तस्याः पुरत आलेखाप्यते येन सा तद् दृष्ट्वा ‘तस्य सागारिकमिदमिति बीभत्सम्' इति जानाना विरागमुपपद्यते । “खमए महुरा" इति मथुरायां श्रमणीप्रभृतीनां बोधिकस्तेनकृत उपसर्गोऽभवत् तं क्षपको निवारितवान्, एषोऽपि मानुष उपसर्गः । तैरश्चमाह-“तिरिक्खाइ "त्ति तिर्यञ्चो ग्रामेयका आरण्यका वा श्रमणीनामुपसर्गान् कुर्वन्ति ते यथाशक्ति निराकर्तव्याः । साम्प्रतमेनामेव गाथां विवरीषुराह [भा. ६२७१] विज्जादऽभिओगो पुन, एसो मानुस्सओ य दिव्वो य । तं पुन जाणंति कहं, जति नामं गेण्हए तस्स ॥ For Private & Personal Use Only Jain Education International www.jainelibrary.org

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452