Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 378
________________ उद्देशक : ६, मूलं- २०५, [भा. ६२०७] ३७५ गच्छन् दर्श्यते, यथा-यतस्त्वं बिभेषि स हस्ती 'नश्यति' नश्यन् वर्तते ततः कथं त्वमेवं भीरोरपि भीरुर्जाता ? । तथा या गर्जितं श्रुत्वा भयमग्रहीत् तं प्रति उच्यते - स्थविरा नभसि शुष्कं चर्म विकर्षति; एवं चोक्त्वा शुष्कचर्मण आकर्षणशब्दः श्राव्यते, ततो भयं जरयति । तथा यदि अग्नेः स्तम्भनं न ज्ञायते तदा 'द्वयोः' अग्नौ विद्युति च भयं प्रपन्नाया अलातचक्रं पुनः पुनरकस्माद् दर्श्यते यावदुभयोरपि भयं जीर्णं भवति ॥ अथ वादे पराजयादपमानतः क्षिप्तचित्तीभूताया यतनामाह [भा. ६२०८] एईए जिता मि अहं, तं पुन सहसा न लक्खियं नाए । धिक्कतकतितव लज्जाविताए पउणायई खुड्डी ॥ [भा. ६२०९] तहविय अठायमाणे, सारक्खमरक्खणे य चउगुरुगा । आणाणो य दोसा, विराधन इमेहिं ठाणेहिं ॥ वृ-यथा चरिकया सा पराजिता सा प्रज्ञाप्यते यथोक्तं प्राक् । ततः साऽऽगत्य वदति- एतयाऽहं वादे जिताऽस्मि, 'तत् पुनः' स्वयंजयनमनया सहसा न लक्षितम्, ततो मे लोकस्य पुरतो जयप्रवादोऽभवत् । एवमुक्ते सा चरिका धिक्कृ तं धिक्कारस्तत्कैतवेन तद्व्याजेन 'लज्जाप्यते' लज्जा ग्राह्यते, लज्जां च ग्राहिता सती साऽपसार्यते । ततः क्षिप्ता भण्यते किमिति त्वमपमानं गृहीतवती ? वादे हि ननु त्वयैषां पराजिता, तथा च त्वत्समक्षमेव एषा धिक्कारं ग्राहितेति । एवं यतनायां क्रियमाणायां यदि सा क्षुल्लिका प्रगुणीभवति ततः सुन्दरम् ॥ 'तथापिच' एवं यतनायामपि च क्रियमाणायाम् ‘अनवतिष्ठति' अनिवर्तमाने क्षिप्तचित्तत्वे संरक्षणं वक्ष्यमाणयतनया कर्तव्यम् । अरक्षणे प्रायश्चित्तं चत्वारो गुरुकाः, आज्ञादयश्च दोषाः, विराधना चामीभि 'स्थानैः प्रकारैर्भवति । तान्येवाह [ भा. ६२१०] छक्कायाण विराधन, झामण तेने निवायणे चेव । अगड विसमे पडेज व, तम्हा रक्खंति जयणाए । वृ- तया क्षिप्तचित्तया इतस्ततः परिभ्रमन्त्या षन्नां कायानां पृथिवीकयिकादीना विराधना क्रियते । 'ध्यामनं' प्रदीपनकं तद वा कुर्यात् । यदि वा स्तैन्यम्, अथवा निपातनमात्मनः परस्य वा विधीयते । 'अवटे' कूपेऽथवाऽन्यत्र विषमे पतेत् । तदेवमसंरक्षणे इमे दोषास्तस्माद् रक्षन्ति 'यतनया' वक्ष्यमाणया ।। साम्प्रतमेनामेव गाथां व्याचिख्यासुराह [ भा. ६२११] सस्सगिहादीणि दहे, तेनेज्ज व सा सयं व हीरेजा । मारण पिट्टणमुभए, तद्दोसा जं च सेसाणं ॥ वृ- सस्यं धान्यंतद्भृतं गृहं सस्यगृहं तदादीनि, आदिशब्दात् शेषगृहा-ऽऽपणादिपरिग्रहः, 'दहेत्' क्षिप्तचित्ततयाऽग्निप्रदानेन भस्मसात्कुर्यात्, एतेन ध्यामनमिति व्याख्यातम् । मारणं पिट्टनमुभयस्मिन् स्यात्, किमुक्तं भवति ? - सा क्षिप्तचित्तत्वेन परवशा इव स्वयमात्मानं मारयेत् पिट्टयेद्वा, यदि वा परं मारयेत् पिट्टयेद्वा, सा वा परेण मार्यते पिट्यते वेति । “तद्दोसा जं च सेसाणं" इति तस्याः क्षिप्तचित्ताया दोषाद् यच्च 'शेषाणां' साध्वीनां मारणं पिट्टनं वा । तथाहिसाक्षिप्तचित्ता सती यदा व्यापादयति पिट्टयति तदा परे स्वरूपमजानानाः शेषसाध्वीनामपि घात-प्रहारादिकं कुर्यु तन्निमित्तमपि प्रायश्चित्तमरक्षणे द्रष्टव्यम् । शेषाणि तु स्थानानि सुगमानीति न व्याख्यातानि ॥ यदुक्तं "तस्माद् रक्षन्ति यतनया" इति तत्र यतनामाह Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452