Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
३८४
बृहत्कल्प-छेदसूत्रम् -३-६/२०६ . इति दायकेन निषिद्धं 'अलब्धपूर्वं वा' कयाऽपि पूर्वं तत्र न लब्धं तत्र तद् लब्ध्वा दीप्तचित्ता भवतीति वाक्यशेषः, यद्वा सामान्येनोत्कृष्ट आहार उत्कृष्ट उपधिरुत्कृष्टा वा वसतिर्लब्धा अक्षतयोनिका वा 'दुहिता' काचीदश्वरपुत्रिका लब्धा तत्रेयं यतना॥ [भा.६२५४] पगयम्मि पन्नवेत्ता, विजाति विसोधि कम्ममादी वा ।
खुड्डीय बहुविहे आनियम्मि ओभावणा पउणा ॥ वृ-'प्रकृते' विशिष्टतरे भक्त-क्षीर-कम्बल-रलादिकेऽवमतरायाः सम्पादयितव्ये तथाविधं श्रावकमितरं वा प्रज्ञाप्य, तदभावे कस्यापि महर्द्धिकस्य विद्यां आदिशब्दामन्त्र-चूर्णादीन्यावत् 'कर्मादि' कार्मणमपि प्रयुज्य, आदिशब्दः स्वगतानेकभेदसूचकः, ततः क्षुल्लिकतराया गुणतः शतभाग-सहस्रभागादिना हीनाया विशिष्टमाहारादिकं सम्पादयन्ति । ततो विद्यादिप्रयोगजनितपापविशुद्धये 'विशोधि' प्रायश्चित्तं ग्राह्यम् । एवं क्षुल्लिकया 'बहुविधे' क्षीरादिके आनीते सति तस्या अपभ्राजना क्रियते तः प्रगुणा भवति॥ [भा.६२५५] अद्दिट्ठसड कहणं, आउट्टा अभिणवो य पासादो।
कयमित्ते य विवाहे, सिद्धाइसुता कतितवेणं॥ वृ-यस्तया श्राद्धोन दृष्टः-अष्टपूर्वस्तस्यादृष्टस्य श्राद्धस्य 'कथन' प्रज्ञापना, उपलक्षणमेतद्, अन्यस्य महर्द्धिकस्य विद्यादिप्रयोगतोऽभिमुखीकरणम्, ततस्ते आवृत्ताः सन्तस्तस्या लब्ध्यभिमानिन्याः समीपमागत्य ब्रुवते-वयमेतया क्षुल्लिकया प्रज्ञापितास्ततः 'अभिनव एव' कृतमात्र एव युष्माकेष प्रासादो दत्त इति । तथा कैतवेन सिद्धादिसुताः' सिद्धपुत्रादिदुहितरः कृतमात्र एव विवाहे उत्पादनीयाः । इयमत्र भावना-सिद्धपुत्रादीनां प्रज्ञापनां कृत्वा तद्दुहितरः कृतमात्रविवाहा एव व्रतार्थं तत्समक्षमुपस्थापनीयाः येन तस्या अपभ्राजना जायते । ततः प्रगुणीभूतायां तस्यां यदि तासां न तात्विकी व्रतश्रद्धा तदा शकुनादिवैगुण्यमुद्भाव्य मुच्यन्ते।
मू. (२०७) जक्खाइडिं निग्गंथिं निग्गंथे गिण्हमाणे वा नाइक्कमइ॥ वृ-अस्य सम्बन्धमाह[भा.६२५६] पोग्गल असुभसमुदयो, एस अनागंतुगो व दोण्हं पि।
जक्खावेसेणं पुन, नियमा आगंतुको होइ॥ वृ-'द्वयोः' क्षिप्तचित्ता-दीप्तचित्तयोः ‘एषः' पीडाहेतुत्वेनान्तरमुष्टिोऽशुभपुद्गलसमुदयः 'अनागन्तुकः' स्वशरीरसम्भवी प्रतिपादितः । यक्षावेशेन पुनर्योयतिपीडाहेतुरशुभपुद्गलसमुदयः स नियमादागन्तुको भवति । ततोऽनागन्तुकाशुभपुद्गलसमुदयप्रतिपादनानन्तरमागन्तुकाशुभपुद्गलसमुदयप्रतिपादनार्थमेष सूत्रारम्भः ।। प्रकारान्तरेण सम्बन्धमाह[भा.६२५७] अहवा भय-सोगजुया, चिंतद्दन्ना व अतिहरिसिता वा।
आविस्सति जक्खेहि, अयमन्नो होइ संबंधो॥ वृ-'अथवा' इति प्रकारान्तरोपदर्शने । भय-शोकयुक्ता वा चिन्तार्दिता वा, एतेन क्षिप्तचित्ता उक्ता; अतिहर्षिता वा या परवशा, अनेन दीप्तचित्ताऽभिहिता; एषा द्विविधाऽपि यक्षैः परवशहृदयतया 'आविश्यते' आलिङ्गयते।ततः क्षिप्त-दीप्तचित्तासूत्रानन्तरंयक्षाविष्टासूत्रमित्ययमन्यो भवति सम्बन्धः । अनेन सम्बन्धेनायातस्यास्या व्याख्या-सा च प्राग्वत् । सम्प्रति यतो यक्षाविष्टा भवति तत् प्रतिपादनार्थमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452