Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 382
________________ उद्देशकः ६, मूलं-२०५, [भा. ६२२५] ३७९ 'अवस्थितं' न हीयतेनचवर्धते, एते चत्वारो भङ्गाश्चारित्रस्य। साम्प्रतममीषामेव चतुर्णा भङ्गानां यथासङ्खयेन विषयान् प्रदर्शयति-"खइयं" इत्यादि ।क्षपक श्रेणिप्रतिपन्नस्य क्षायिकंचरणंवर्धते। उपशमश्रेणीतःप्रतिपतने औपसमिकं चरणं हानिमुपगच्छति।क्षायोपशमिकतत्तद्राग-द्वेषोत्कर्षाऽपकर्षवशतः क्षीयते परिवर्धते च । यथाख्यातं 'क्षिप्तं च' पदैकदेशे पदसमुदायोपचारात् क्षिप्तचित्तचारित्रं चावस्थितम्, यथाख्यातचारित्रे सर्वथा राग-द्वेषोदयाभावात् क्षिप्तचित्तचारित्रे परवशतया प्रवृत्तेः स्वतो राग-द्वेषाभावात् । तदेवं यतः क्षिप्तचित्ते चारित्रमवस्थितं अतो नासौ प्रायश्चित्तभागिति ॥ पर आह-ननु सा क्षिप्तचित्ताऽऽश्रवद्वारेषु चिरकालं प्रवर्तिता बहुविधं चासमअसतया प्रलपितं लोक-लोकोत्तर विरुद्धं चसमाचरितंततः कथमेषान प्रायश्चित्तभाक्? अत्र सूरिराह[भा.६२२६] काणं आसवदारेसुवट्टियं पलवितं बहुविधं च। लोगविरुद्धा य पदा, लोउत्तरिया य आइन्ना ।। वृ. 'कामम्' इत्यनुमतौ अनुमतमेतद्, यथा-तयाऽऽश्रवद्वारेषुचिरकालं वर्तितं बहुविधं च प्रलपितं लोकविरुद्धानि लोकोत्तरविरुद्धानि च पदानि 'आचीर्णानि' प्रतिसेवितानि ।। [भा.६२२७] न यबंधहेउविगलत्तणेण कम्मस्स उवचयो होति। लोगो वि एत्थ सक्खी, जह एस परव्वसा कासी ।। वृ-तथापि 'न च' नैव तस्याः क्षिप्तचित्तायाः 'बन्धहेतुविकलत्वेन' बन्धहेतवः-रागद्वेषादयस्तद्विकलत्वेन कर्मोपचयो भवति, कर्मोपचयस्य राग-द्वेषसमाचरिताद्यधीनत्वात्, तस्याश्च रागद्वेषविकल्वात्। तस्याश्च राग-द्वेषविकलत्वंन वचनमात्रसिद्ध किन्तु लोकोऽपि 'अत्र' अस्मिन् विषये साक्षी, यथा-एषा सर्वं परवशाऽकार्षीदिति । ततो राग-द्वेषाभावान्न कर्मोपचयः, तस्य तदनुगतत्वात् ॥तथा चाह[भा.६२२८] राग-दोसानुगया, जीवा कम्मस्स बंधगा होति। रागादिविसेसेण य, बंधविसेसो वि अविगीओ। वृ-राग-द्वेषाभ्यामनुगताः-सम्बधा राग-द्वेषानुगताः सन्तो जीवाः कर्मणो बन्धका भवन्ति । ततः 'राग-द्वेषविशेषेण राग-द्वेषतारतम्येन 'बन्धविशेषः' कर्मबन्धतर-तमभावः ‘अविगीतः' अविप्रतिपन्नः । ततः क्षिप्तचित्ताया राग-द्वेषाभावतः कर्मोपचयाभावः॥ अमुमेवार्थं दृष्टान्तेन द्रढयति[भा.६२२९] कुणमाणा वियचेट्ठा, परतंता नट्टिया बहुविहातो। किरियाफलेन जुञ्जति, न जहा एमेव एतं पि॥ वृ- यथा 'नर्तकी' यन्त्रनर्तकी काष्ठमयी 'परतन्त्रा' परायता परप्रयोगत इत्यर्थः, 'बहुधा अपि' बहुप्रकारा अपि, तुशब्दोऽपिशब्दार्थ, चेष्टाः कुर्वाणा 'क्रियाफलेन' कर्मणा न युज्यते; 'एवमेव' अनेनैवप्रकारेणएनामपि क्षिप्तचित्तामनेकाअपिविरुद्धाः क्रियाः कुर्वाणामकर्मकोपचयां पश्यत॥अथात्र परस्य मतमाशङ्कमान आह[भा.६२३०] जइ इच्छसि सासेरा, अचेतणा तेन से चओ नत्थि। जीवपरिग्गहिया पुन, बोंदी असमंजसं समता। वृ-यदि त्वमेतद् ‘इच्छसि' अनुमन्यसे, यथा-“सासेरा" इति देशीपदत्वाद् यन्त्रमयी नर्तकी Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452