Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 372
________________ उद्देशक : ६, मूलं-२०१, [भा. ६१७९] ३६९ कारयेत् । एषा स्वपक्षे यतना भणिता । अथैष स्वपक्षो न प्राप्यते ततः “परपक्खे”त्यादि पूर्वार्द्धम्‘परपक्षे' गृहस्था-ऽन्यतीर्थिकरूपे प्रथमं पुरुषैः, ततः 'गेहिनीभिः' स्त्रभिरपि कारयेत्, तत्राप्यशौचवादिभि कुशलैश्च कारापणयम् । अत एवाह-अशौचवादि-कुशलानां 'प्रतिपक्षाः ' ये शौचवादिनोऽकुशलाश्च तान् मुक्त्वा कारयितव्यम् । अथैतेऽपि न प्राप्यन्ते तदा संयतीभिरपि कारयेत्, तत्रापि प्रथमं मातृभगिन्यादिभिर्नालब्धाभि, तद्भावेऽसम्बन्धिनीभिरि स्थविरा-मध्यमातरुणीभिर्यथाक्रमं कारयेत् ॥ कथं पुनस्तया कण्टक उद्धरणीयः ? इत्याहसल्लुद्धर नक्खेण व, अच्छिव वत्थंतरं व इत्थीसु । भूमी - कट्ठ-तलोरुसु, काऊण सुसंवुडा दो वि ॥ [ भा. ६१८० ] वृ- शल्योद्धरणेन नखेन वा पादमस्पृशन्ती कण्टकमुद्धरति । अथैवं न शक्यते ततो वस्त्रान्तरितं पादं भूमौ कृत्वा यद्वा काष्ठे वा ताले पा ऊरौ वा कृत्वा उद्धरेत् । 'द्वावपि च' संयती - संयतौ सुसंवृतावुपविशतः । एषः ‘स्त्रीषु' कण्टकमुद्धरन्तीषु विधिरवगन्तव्यः ॥ [भा. ६१८१] एमेव य अच्छिम्मिं, चंपादिट्ठतो नवरि नाणत्तं । निग्गंथीण तहेव य, नवरिं तु असंवुडा काई ॥ वृ- एवमेव अक्षिसूत्रे ऽपि सर्वमपि चक्तव्यम् । 'नवरं' नानात्वं चम्पाध्ष्टान्तोऽत्र भवति । यथा किल चम्पायां सुभद्रया तस्य साधोश्चक्षुषि पतितं तृणमपनीतं तथाऽन्यस्यापि साधोश्चक्षुषि प्रविष्टस्य तृमादेः कारणे निर्ग्रथ्याऽपनयनं सम्भवतीति दृष्टान्तभावार्थः । निर्ग्रन्थीनामपि सूत्रद्वयं तथैव वक्तव्यम् । नवरम् - काचिदसंवृता भवति ततः प्रतिगमनादयः पूर्वोक्ता दोषा भवेयुः । द्वितीयपदे निर्ग्रन्थस्तासांम प्रागुक्तविधिना कण्टकादिकमुद्धरेत् ॥ मू. (२०२) निग्गंथे निग्गंथिं दुग्गंसि वा विसमंसि वा पव्वयंसि वा पक्खुलमाणिं वा पवडमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ॥ मू. (२०३) निग्गंथे निग्गंथिं सेयंसि वा पंकंसि वा पनगंसि वा उदगंसि वा ओकसमाणिं वा ओवुज्झमाणि वा गिण्हमाणे वा अवलंबमाणे वा नाइक्कमइ ॥ मू. (२०४] निग्गंथे निग्गंथि नावं आरुभमाणिं वा ओरुभमाणिं वा गिण्हमाणे वा अवलंबमाणे वा नातिक्कमइ ॥ वृ- अस्य सूत्रत्रयस्य सम्बन्धमाह [ भा. ६१८२ ] सो पुन दुग्गे लग्गेज्ज कंटओ लोयणम्मि वा कणुगं । इति दुग्गसुत्तजोगो, थला जलं चेयरे दुविहे ॥ वृ-यः पूर्वसूत्रे पादप्रविष्टः कम्टको लोचने वा कणुकं प्रविष्टमुक्तं स कण्टकस्तच्च कणुकं दुर्गे गच्छतः प्रायो लगेत्, अतो दुर्गसूत्रमारभ्यते । 'इति' एष दुर्गसूत्रस्य योगः- सम्बन्धः । दुर्गं चस्थलं ततः स्थलाज्जलं भवतीति कृत्वा दुर्गसूत्रानन्तरम् 'इतरस्मिन्' जलप्रतिबद्धे 'द्विविधे' पङ्कविषये नौविषये च सूत्रे आरम्भः क्रियते । अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थो निर्ग्रन्थीं दुर्गे वा विषमे वा पर्वते वा "पक्खुलमाणि वत्ति प्रकर्षेण स्खलद्गत्या गच्छन्तीम्, भूमावसम्प्राप्तां वा पतन्तीम्, पतितुकामामित्यर्थः । “पवडमाणि व’त्ति प्कर्षेण भूमौ सर्वैरपि गात्रैः पतन्तीम् । 20 24 Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452