Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 374
________________ उद्देश : ६, मूलं - २०४, [भा. ६१८७ ] [भा. ६१८७ ] अहवा विदुग्ग विसमे, थद्धं भीतं व गीत थेरो तु । सिचयंतरेतरं वा, गिण्हंतो होति निद्दोसो ॥ वृ- 'अथवा' इति प्रकारान्तरद्योतकः । उक्तास्तावद् निर्ग्रन्थीं गृह्णतो दोषाः, परं द्वितीयपदे दुर्गे विषमे वा तां स्तब्धां भीतां वा गीतार्थ स्थविरः सिचयेन-वस्त्रणान्तिताम् इतरां वा गृह्णन् निर्दोषो भवति ॥ व्याख्यातं प्रथमसूत्रम् । सम्प्रति द्वितीयसूत्रं व्याख्याति [भा. ६१८८ ] पंको खलु चिक्खल्लो, आगंतू पयणुओ दुओ पणओ । सो पुन सजलो सेओ, सीतिज्जति जत्थ दुविहे वी ॥ वृ- पङ्कः खलु चिक्खल्ल उच्यते । आगन्तुकः प्रतनुको द्रुतश्च पनकः । यत्र पुनः 'द्विविधेऽपि ' पङ्के पनके वा "सीइज्जति” निमज्जते स पुनः सजलः सेक उच्यते ॥ [भा. ६१८९ ] पंक-पनएसु नियमा, ओगसणं वुब्भणं सिया सेए । थिमियम्मि निमज्जणता, सजले सेए सिया दो वि ॥ वृ- पङ्क - पनकयोर्नियमाद् 'अपकसनं' ह्रसनं भवति । सेके तु "वुज्झणं" 'अपोहनं' पानीयेन हरणं स्यात् । स्तिमिते तु तत्र निमज्जनं भवेत् । सजले तु सेके 'द्वे अपि' अपवहन - निमज्जने स्याताम् ॥ अथ तृतीयं नौसूत्रं व्याख्याति [भा. ६१९०] ओयारण उत्तारण, अत्थुरण ववुग्गहे य सतिकारो । छेदो व दुवेगयरे, अतपिल्लण भाव मिच्छत्तं ॥ वृ- कारणे निर्ग्रन्थीं नावम् 'अवतारयन्' आरोपयन् वा यद्यास्तरणं वपुर्ग्रहं वा करोति तदा स्मृतिकारो भुक्तभोगिनोस्तयोर्भवति । छेदो वा नखादिभिर्द्वयोरेकतरस्य भवेत् । अतिप्रेरणेच ‘भावः' मैथुनाभिलाष उत्पद्येत । मिथ्यात्वं वा तद् दृष्ट्वा कश्चिद् गच्छेत् ॥ एते नावुदके निर्ग्रन्थीं गृह्णतो दोषा उक्ताः । अथ लेपोपरि सन्तारयतो दोषानाह [ भा. ६१९१] ३७१ अंतोजले वि एवं, गुज्झंगप्फास इच्छऽनिच्छंते । मुज्जव आयत्ता, जा होउ करेतु वा हावे ॥ वृ- 'अन्तर्जलेऽपि ' जलाभ्यन्तरेऽपि गच्छन्तीं गृह्णत एवमेव दोषा मन्तव्याः । तथा गुहाङ्गस्पर्शे मोह उदियात्, उदितेच मोहे यदि इच्छति नेच्छति वा तत उभयथाऽपि दोषाः । यद्वा स उदीर्णमोहस्तां जलमध्ये मुञ्चेत्, आयत्ता यस्माद् भवंतु करोतु वा 'हावान्' मुखविकारानिति । कारणे तु नावुदके लेपोपरि वा अवतारणं उत्तारणं वा कुर्वन् यतनया गृह्णीयाद् अवलम्बेत वा ॥ अथ ग्रहणा - Sवलम्बपदे व्याख्याति [भा. ६१९२] सव्वंगियं तु गहणं, करेहि अवलंबणेगदेसम्मि । जह सुत्तं तासु कयं, तहेव वतिणो वि वतिणीए । वृ-ग्रहणं नाम सर्वाङ्गीणं कराभ्यां यद् गृह्यते । अवलम्बनं तु तद् उच्यते यद् एकस्मिन् देशेबाह्यादौ ग्रहणं क्रियते । तदेवं यथा तासु निर्ग्रन्थीषु 'सूत्रं' सूत्रत्रयं कृतम् । किमुक्तं भवति ?यथा निर्ग्रन्थो निर्ग्रन्थ्याः कारणे ग्रहणमवलम्बनं वा कुर्वन् नाऽऽज्ञामतिक्रामतीति सूत्रत्रयेऽपि भणितम्; तथैवार्थत इदं द्रष्टव्यम्- 'व्रतिनोऽपि' साधोरपि दुर्गादौ पङ्कादौ नावुदकादौ वा प्रपततो व्रतिन्या कारणे ग्रहणमवलम्बनं वा कर्तव्यम् । कया पुनर्यतनया ? इति चेद् अत आह For Private & Personal Use Only www.jainelibrary.org Jain Education International

Loading...

Page Navigation
1 ... 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452