Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 369
________________ ३६६ बृहत्कल्प-छेदसूत्रम् -३-६/२०१ आत्मविराधनां संयमविराधनां वा करोति 'तत्स्थान' तन्निष्पन्नं प्रायश्चित्तं सा निर्ग्रन्थी आपद्यते। अत इदं सूत्रमारभ्यते ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या-निर्ग्रन्थस्ये 'अधःपादे' पादतले स्थाणुर्वा कण्टको वा हीरो वा शर्करो वा 'पर्यापतेत्' अनुप्रविशेत्, 'तच्च' कण्टकादिकं निर्ग्रन्थो न शक्नुयात् 'नीहर्तुवा' निष्काशयितुंवा 'विशोधयितुंवा' निशेषमपनेतुम्, तनिर्ग्रन्थीनीहरन्ती वा विशोधयन्ती वा नातिकामति, आज्ञामिति गम्यते इति प्रथमसूत्रम्॥ द्वितीयसूत्रे-निर्ग्रन्थस्य अक्षिण' लोचने 'प्राणावा' मशकादयः सूक्ष्माः ‘बीजानि वा सूक्ष्माणि श्यामाकादीनि ‘रजो वा' सचित्तमचित्तं वा पृथिवीरजः ‘पर्यापतेत्' प्रविशेत्, ‘तच्च प्राणादिकं निर्ग्रन्थोनशक्नुयात्रीहर्तुमित्यादिप्राग्वत्॥ तृतीय-चतुर्थसूत्रेनिग्रन्थीविषये एवमेव व्याख्यातव्ये। इति सूत्रचतुष्टयार्थः ॥अथ नियुक्तिविस्तरः[भा.६१६६] पाए अच्छि विलग्गे, समणाणं संजएहि कायव्वं । समणीणं समणीहिं, वोच्चत्थे होंति चउगुरुगा॥ वृ-पादे अक्षिण वा विलग्ने कण्टक-कणुकादौ श्रमणानां संयतैर्नीहरणं कर्तव्यम्, श्रमणीनां पुनः श्रमणीभि कार्यम् । अथ व्यत्यासेन कुर्वन्ति तदा चतुर्गुरवः ॥एते चापरे दोषाः[भा.६१६७] अन्नत्तो चिय कुंटसि, अन्नत्तो कंटओ खतं जातं । दिलृ पि हरति दिद्धिं, किं पुन अद्दिट्ठ इतरस्स ॥ वृ-संयतः संयत्याः पावत् कण्टकमाकर्षयन् कैतवेन यथाभावेन वा अपावृत उपविशेत् ततःसातंतथास्थितंपश्यन्ती कणटकस्थानादन्यत्रान्यत्रशल्योद्धरणादिनाकुण्टयेत, खन्यादित्यर्थः। ततः साधुइँयात्-अन्यत एव त्वं कुण्टयसि कण्टकश्चान्यत्र समस्ति एवं मे क्षतं सजातम् । सा प्राह-'इतरस्य' पुरुषस्य सम्बन्दि सागारिं दृष्टमपि भुक्तभोगिन्याः स्त्रयाअनेकशो विलकितमपि दृष्टिं हरति किं पुनरदृष्टमभुक्तभोगिन्याः?, तस्याः सुतरां दृष्टिं हरतीत्यर्थः । एवं भिन्नकथायां प्रतिगमनादयो दोषाः ॥ यदा तु निर्ग्रन्थो निर्ग्रन्थ्याः कण्टकमुद्धरति तदाऽयं दोषः[भा.६१६८] कंटग-कणुए उद्धर, धणितं अवलंब मे भमति भूमी। सूलं च बत्थसीसे, पेल्लेहि घनं थणो फुरति॥ . वृ-काचिदार्यिका कैतवेनेदं ब्रूयात्-'कण्टक-कणुके' पादे कण्टकं चक्षुषि च कणुकमुद्धर, 'धनियं' अत्यर्थं मामवलम्बस्व, यतो ममभ्रमिवशेन भूमिभ्रमति।शूलंवा बस्तिशीर्षेमम समायाति तेन स्तनः स्फुरति, अतो घनं प्रेरय । एवं भिन्नकथायां सद्यश्चारित्रविनाशः॥ [भा.६१६९] एए चेव य दोसा, कहिया थीवेद आदिसुत्तेसु। अयपाल-जंबु-सीउण्हपाडणं लोगिगी रोहा॥ वृ- ‘एत एव' अनन्तरोक्ता दोषाः स्त्रीवेदविषयाः ‘आदिसूत्रेषु' सूत्रकृताङ्गान्तर्गतस्त्रपरिज्ञाध्ययनादिषुसविस्तरं कथिताः।अत्रचाजापालक-शीतोष्ण-जम्बूपातनोपलक्षितालौकिकी रोहायाः कथा। तद्यथा-रोहा नामं परिव्वाइया ।ताए अयावालगो दिट्ठो। सो ताए अभिरुईओ। तीए चिंतियं-विन्नाणं से परिक्खामि।सोय तया जंबूतरुवरारूढो । तीए फलाणिपणईओ।तेन भन्नई-किंउण्हाणिदेमि? उयाहु सीयलाणि? ति।तीए भन्नइ उण्हाणि ।तओ तेन घूलीए उवरिं पाडियाणि, भणिया-खाहि त्ति । तीए फूमिउं धूलिं अवनेउं खइयाणि । पच्छा सा भणइ-कहं Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452