Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan

View full book text
Previous | Next

Page 365
________________ ३६२ बृहत्कल्प-छेदसूत्रम् -३-६/१९७ तस्य द्वौ दोषौ-एकः प्राणातिपातदोषो द्वितीयो मृषावाददोष इति । तत्रापि च' अभ्याख्याने प्राणातिपाते वा कृतेऽपि ‘एको वा' अवमरालकः ‘एको वा' रालिको यदि अप्रसङ्गी भवति तदा न प्रायश्चित्तवृद्धिः । किमुक्तं भवति?-यदि अवमरालिकोऽभ्याख्यानं दत्त्वा न निकाचयति यो वाऽभ्याख्यातः सोऽपिन रुष्यतितदान प्रायश्चित्तवृद्धिः। अथाभ्याख्याताभूयो भूयः समर्थयति इतरोऽपि भूयो भूयो रुष्यति तदा प्रायश्चित्तवृद्धि । एवं दर्दुरविषयः प्रस्तारो भावितः । शुनकसर्प-मूषकविषया अपि प्रस्तारा एवमेव भावनीयाः॥ गतः प्राणातिपातप्रस्तारः। सम्प्रति मृषावादा-ऽदत्तादानयोः प्रस्तारमाह[भा.६१४२] मोसम्मि संडीए, मोयगगहणं अदत्तदानम्मि। आरोवणपत्थारो, तंचेव इमं तु नाणतं॥ वृ-मृषावादे सङ्घडीविषयं निदर्शनम्।अदत्तादाने मोदकग्रहणम् । एतयोईयोरप्यारोपणायाः प्रायश्चित्तस्य प्रस्तारः स एव मन्तव्यः । इदं तु 'नानात्वं' विशेषः॥ [भा.६१४३] दीन-कलुणेहि जायति, पडिसिद्धो विसति एसणं हणति। जंपति मुहप्पियाणिय, जोग-तिगिच्छा-निमित्ताई॥ वृ- कस्यामपि सङ्घड्यामकालत्वात् प्रतिषिद्धौ साधू अन्यत्र गतौ, ततो मुहूर्तान्तरे रत्नाधिकेनोक्तम्-व्रजामः सङ्घड्याम्, इदानीं भोजनकालः सम्भाव्यते।अवमोभणति-प्रतिषिद्धोऽहं न व्रजामि । ततोऽसौ निवृत्त्याऽऽचार्यायेदमालोचयति, यथा-अयं दीन-करुणवचनैर्याचते, प्रतिषिद्धोऽपि च प्रविशति, एषणां च ‘हन्ति' प्रेरयति, अथवा एष गृहं प्रविष्टो मुखप्रियाणि योग-चिकित्सा-निमित्तानि जल्पति । एवंविधमृषावादवादं वदतः प्रायश्चित्तप्रस्तारो भवति॥ [भा.६१४४] वच्चइ भणाइ आलोय निकाए पुच्छिए निसिद्धे य। साहु गिहि मिलियसव्वे, पत्यारोजाव वदमाणे ॥ [भा.६१४५] मासो लहुओ गुरुओ, चउरो लहुगय होति गुरुगा य। छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगं च ॥ गाथाद्वयमपि गतार्थम् ।।अथादत्तादाने मोदकग्रहणदृष्टान्तं भावयति[भा.६१४६] जा फुसति भाणमेगो, बितिओ अन्नत्थ लड्डुते ताव। लभ्रूण नीति इयरो, ते दिस्स इमं कुणति कोई॥ वृ-एकत्र गेहे भिक्षा लब्धा, साचावमेन गृहीता यावद् असौ एकः' अवमरालिको भाजनं 'स्पृशति' सम्मार्टि तावद् 'द्वितीयः' रत्नाधिकः ‘अन्यत्र' सङ्खड्यां लड्डका लब्धवान्, लब्ध्वाच निर्गच्छति । 'इतरःपुनः' अवमः 'तान्' मोदकान् दृष्टवा कश्चिदीष्यात॒रिदं करोति॥ किम् ? इत्यत आह[भा.६१४७] वच्चइ भणाइ आलोय निकाए पुच्छिए निसिद्धे य । साहु गिहि मिलिय सव्वे, पत्थारो जाव वयमाणे॥ [भा.६१४८] मासो लहुओ गुरुओ, चउरो लहुगा य होति गुरुगाय । छम्मासा लहु-गुरुगा, छेदो मूलं तह दुगंच॥ वृ“वच्चइ"त्तिसनिवृत्त्य गुरुसकाशंव्रजति।आगम्य च भणतिआलोचयति-रलाधिकेनादत्ता Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452