Book Title: Agam Suttani Satikam Part 20 Bruhat kalpa
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Agam Shrut Prakashan
View full book text
________________
उद्देशकः ६, मूलं-१९६, [भा. ६९०००]
३५३
___तासिंच फरुसवयणं, आमिसपुच्छा समुप्पन्नं ।। वृ-व्याधस्य कुटुम्बिनो।पिच “धूताः" दुहितरौ अन्योन्यं समनुरक्ते, परस्परंसख्यौ इत्यर्थः। तयोश्च परुषवचनमामिषपृच्छया समुत्पन्नम् ।। कथम्? इति चेद् उच्यते[भा.६१०१] केनाऽऽनीतं पिसियं, फरुसंपुन पुच्छिया भणति वाही।
किं खू तुम पिताए, आनीतं उत्तरं वोच्छं। . वृ-व्याधदुहित्रा पुद्गलमानीतम्, ततः कुटुम्बिदुहित्रा सा भणिता-केनेदं पिशितमानीतम् ? ततो 'व्याधी' व्याधदुहिता पृष्टा सती परुवचनं भणति-किं खु? त्वदीयेन पित्राऽऽनीतम् । कुटुम्बिदुहिता भणति-किंमदीयःपिता व्याधः येनपुद्गलमानयेत्? ।एवं लौकिकंपरुषवचनम्। अथ उत्तरं लोकोत्तरिकं वक्ष्ये ॥ प्रतिज्ञातमेवाह[भा.६१०२] फरुसम्मिचंडरुद्दो, अवंति लाभे य सेह उत्तरिए।
आलत्ते वाहित्ते, वावारिय पुच्छिय निसिट्टे ॥ वृ-परुषवचने चण्डरुद्र उदाहरणम्, अवन्त्या नगर्यां शैक्षस्य लाभः तस्य सञात इति तदुदाहरमस्यैव सूचा कृता। एतल्लोकोत्तरिकं परुषवचनम्। एतच्चैतेषुस्थानेषूत्पद्यते-“आलत्ते" इत्यादि, 'आलप्तो नाम' 'आर्य ! किं तव वर्तते?' इत्येवमाभाषितः १, 'व्याहृतः' 'इत एहि' इत्येवमाकारितः २, व्यापारितः' 'इदमिदंच कुरु' इति नियुक्तः ३, 'पृष्टः' 'किं कृतं? किंवा न कृतम् ?' इत्यादि पर्यनुयुक्तः ४, 'निसृष्टः' 'गृहाण, भुझ्व, पिब' इत्येवमादिष्टः ५। एतेषु पञ्चसु स्थानेषु परुषवचनं सम्भवति इति नियुक्तिगाथासमासार्थः॥
अथैनां विवरीषुश्चण्डरुद्रदृष्टान्तं तावदाह[भा.६१०३] ओसरणे सवयंसो, इब्मसुतो वत्थभूसियसरीरो।
दायण त चंडरुदे, एस पवंचेति अम्हे ति॥ वृ-उज्जयिन्यां नगर्यां रथयात्रोत्सवे 'ओसरणं' बहूनां साधूनामेकत्र मीलकः समजनि । तत्र सवयस्यो वस्त्रभूषितशरीरः इभ्यसुतः साधूनामन्तिके समायातो भणति-मां प्रव्राजयत । ततः साधवश्चिन्तयन्ति-एषः 'प्रपञ्चयति' विप्रतारयत्यस्मानिति । तैश्चण्डरुद्राचार्यस्य दर्शनं कृतम् "घृष्यतां कलिना कलि" इति कृत्वा । [भा.६१०४] भूतिं आनय आनीते दिक्खितो कंदिउं गता मित्ता।
वत्तोसरणे पंथं, पेहा वय दंडगाऽऽउट्टो॥ वृ-ततश्चण्डरुद्रस्योपस्थितः-प्रव्राजयतमामिति।ततस्तेनोक्तम्-'मूर्ति क्षारमानय। ततस्तेन भूतावानीताया लोचं कृत्वा दीक्षितः। ततस्तदीयानि मित्राणि 'क्रन्दित्वा' प्रभूतं रुदित्वा स्वस्थानं गतानि । वृत्ते च समवसरणे चण्डरुद्रेण शैक्षो भणितः-पन्थानं प्रत्युपेक्षस्व येन प्रभाते व्रजामः। ततःप्रत्युपेक्षिते पथिभाते पुरतः शैक्षः पृष्ठतश्चण्डरुद्रः “वय"त्ति व्रजति । स च शैक्षो गच्छन् स्थाणावास्फिटितः। ततश्चण्डरुद्रो रुष्टः 'दुष्टशैक्षः' इति भणन् शिरसि दण्डकेन ताडयति।शैक्षो मिथ्यादुष्कृतं करोति भणति च-सम्यगायुक्तो गमिष्यामि । ततश्चण्डरुद्रस्तदीयोपशमेनावृत्तश्चिन्तयति-अहो ! अस्याभिनवदीक्षितस्यापि कियान् शमप्रकर्ष ? मम तु मन्दभाग्यस्य [ 20[23]
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452