________________
२२८
मुखोऽपि न भवतीति दर्शयति
मूलम् - 'सर्वसङ्गपरित्यागः, सुखमित्यपि वेत्ति सः । सम्मुखोऽपि भवेत्किं न तस्येत्यपि न बुध्यते ॥३॥
सर्वसङ्गपरित्यागः सुखम्
अन्वयः - सर्वसङ्गपरित्यागः सुखमित्यपि स वेत्ति, (स) तस्य सम्मुखोऽपि किं
-
न भवेत् ? इत्यपि न बुध्यते ॥३॥
--
योगसार: ३/३
सर्वसङ्गपरित्यागः
तस्य
पद्मया वृत्तिः सर्वः-समस्तश्चासौ सङ्गः-सम्बन्धश्चेति सर्वसङ्गः, तस्य परित्याग:- सर्वथा परिहार इति सर्वसङ्गपरित्यागः, सुखम् - सुखरूपम्, इति - अदः, अपिशब्दः कषायविषयाणां दुःखरूपत्वं वेत्त्येव, सर्वसङ्गत्यागस्य सुखरूपत्वमपि वेत्तीति द्योतयति, सः - मूढबुद्धिर्जन:, वेत्ति - जानाति, स इत्यत्राध्याहार्यम्, सङ्गत्यागजन्यसुखस्य, सम्मुखः अभिलाषी, अपिशब्दः सङ्गत्यागं तु न करोति परन्तु तस्याऽभिलाषामपि न करोतीति द्योतयति, किम् कस्माद्धेतोः, नशब्दो निषेधे, भवेत् – स्यात्, इति - एतत् अपिशब्दः कषायविषयजन्यदुःखाभिमुखधावनस्य कारणं तु न बुध्यते परन्तु सर्वसङ्गत्यागजन्यसुखाभिमुखीभवनाभावस्याऽपि कारणं न बुध्यते इति द्योतयति, नशब्दो निषेधे, बुध्यते - ज्ञायते ।
-
जीव: सङ्गरहितोऽस्ति । कर्मवशवर्त्ती स विविधान्सङ्गान्करोति । स शरीर-स्वजनधनन-बाह्यवस्तूनां सङ्गान् करोति । एते सङ्गा बहिर्भूता न जीवस्य स्वभावभूताः। तत: सङ्गकरणेन जीवस्य स्वभावस्तिरोभवति विभावदशा चाविर्भवति । ततो जीवो दुःखीभवति ।
-
-
શબ્દાર્થ - ‘બધા સંગનો બધી રીતે ત્યાગ એ સુખ છે’ એમ પણ એ જાણે છે. તે તેની સન્મુખ પણ કેમ થતો નથી ? એ પણ જણાતું નથી. (૩)
પદ્મીયાવૃત્તિનો ભાવાનુવાદ - જીવ સંગરહિત છે. કર્મને વશ રહેલો તે વિવિધ સંગોને કરે છે. તે શરીર-સ્વજન-ધન-બાહ્ય વસ્તુઓનો સંગ કરે છે. આ સંગો બાહ્ય છે, જીવના સ્વભાવરૂપ નથી. તેથી સંગ કરવાથી જીવનો સ્વભાવ ઢંકાય છે અને વિભાવદશા પ્રગટે છે. તેથી જીવ દુ:ખી થાય છે. જેમ જેમ સંગોનો ત્યાગ કરાય
१. D प्रतौ 'कषाया विषया ... ॥२॥' इति श्लोकानन्तरं 'सूक्ष्मा: सूक्ष्मतरा ॥४॥ इति श्लोक उपन्यस्तः, 'सर्वसङ्ग ... ॥३॥' इति श्लोकः 'अपराधाक्षमा ... ॥५॥ ' इति श्लोकानन्तरमुपन्यस्तः । २. सम्मुखेऽपि - G सन्मुखोऽपि - MI