Book Title: Yogsar Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust

View full book text
Previous | Next

Page 343
________________ २९४ उपमया समतानन्दस्य वर्णनम् योगसार : ३/३० भवति, तदा तस्याऽऽत्मस्वरूपमाविर्भवति, तस्याऽऽत्मनि समतानन्दस्योदयो भवति । तेन दुःखान्धकारस्य विलयो भवति ॥२९॥ अवतरणिका - अन्तस्तत्त्वे उद्भासिते समतानन्दः प्राप्यते । अत उपमया समतानन्दं वर्ण मूलम् - सद्वृक्षं प्राप्य निर्वाति, रवितप्तो यथाऽध्वगः । 'मोक्षाध्वस्थस्तपस्तप्त-स्तथा योगी 'परं लयम् ॥३०॥ - अन्वयः यथा रवितप्तोऽध्वगः सवृक्षं प्राप्य निर्वाति तथा मोक्षाध्वस्थस्तपस्तप्तो योगी परं लयं (प्राप्य निर्वाति) ||३०|| - - पद्मीया वृत्ति: - यथाशब्दो दृष्टान्तोपन्यासे, रवितप्त: - रविना - सूर्येण तप्त : तापपीडित इति रवितप्तः, अध्वगः - अध्वनि-मार्गे गच्छति - चलतीति अध्वगः, सद्वृक्षं सन्-प्रभूतशाखापत्रादिसम्पन्नत्वेन शोभनश्चासौ वृक्षः - तरुश्चेति सद्वृक्षः, तम्, प्राप्य लब्ध्वा, निर्वाति- विश्राम्यति, तथाशब्दो दान्तिकप्रदर्शने, मोक्षाध्वस्थः मोक्षस्य-मुक्तेरध्वा मार्गे रत्नत्रयरूप इति मोक्षाध्वा, तत्र तिष्ठतीति मोक्षाध्वस्थः - रत्नत्रयाऽऽराधकः, तपस्तप्तः – तपसा - बाह्याभ्यन्तरभेदभिन्नेन तप्तः - श्रान्त इति तपस्तप्तः, योगी - पूर्वोक्तस्वरूप:, परम् - सर्वोत्तमम्, लयम् - साम्यरूपम्, प्राप्य निर्वातीत्यत्राध्याहार्यम् । રત બને છે ત્યારે તે સમાન બને છે, ત્યારે તેનું આત્મસ્વરૂપ પ્રગટે છે, તેના આત્મામાં સમતાના આનંદનો ઉદય થાય છે. તેથી દુઃખરૂપી અંધકારનો નાશ થાય छे. (२८) અવતરણિકા - અંદરમાં તત્ત્વનો પ્રકાશ થવા પર સમતાનો આનંદ મળે છે. તેથી હવે ઉપમાથી સમતાના આનંદનું વર્ણન કરે છે - શબ્દાર્થ - જેમ સૂરજથી તપેલો મુસાફર સારા વૃક્ષને પામીને ઠંડકને અનુભવે છે, તેમ મોક્ષના માર્ગમાં રહેલો, તપથી તપેલો યોગી સમતારૂપી સર્વોત્તમ લયને पामीने 835 अनुभवे छे. ( 30 ) १. मोक्षाध्वगस्तपस्तप्त... CI २. तप्त्वा - F। ३. लयं परम् - F, I, परलयम् KI .....

Loading...

Page Navigation
1 ... 341 342 343 344 345 346 347 348 349 350