Book Title: Yogsar Part 01
Author(s): Ratnabodhivijay
Publisher: Jinshasan Aradhana Trust
View full book text
________________
योगसारः ३/१६,१७ मनोवाक्कायेषु साम्यं सेव्यम्
२५९ पद्मीया वृत्तिः - सुयोगिनेति सप्तदशश्लोकपर्यन्तवर्ति पदमत्राक्षेपणीयम्, एवमग्रेऽपि ज्ञेयम्, सुष्ठ-यथाविधि योगमाराधयतीति सुयोगी, तेन, मानसभावेषु - मनसि भवा इति मानसाः, ते च ते भावा:-अध्यवसायाश्चेति मानसभावाः, तेषु, साम्यम् - पूर्वोक्तस्वरूपम्, 'सेव्यम्' इति पदमप्यत्राऽऽक्षेप्यम्, सेव्यम्-धार्यम्, एवमग्रेऽपि ज्ञेयम् । सुयोगिना, वचनवीचिषु - वचनानि-वचांसि, वीचयः - तरङ्गाः, वचनान्येव विचय इति वचनवीचयः, तासु, साम्यं सेव्यम्, सुयोगिना, कायिकचेष्टासु - कायेन भवा इति कायिकाः, ताश्च ताश्चेष्टाः-क्रियाश्चेति कायिकचेष्टाः, तासु, साम्यं सेव्यम्, सुयोगिना, सर्वत्र - सर्वक्षेत्रेषु, सर्वदा - सर्वकालेषु, साम्यं सेव्यम्, सुयोगिना - शोभन:-अप्रमत्तश्चासौ योगी-योगाराधकश्चेति सुयोगी, तेन, स्वपता - निद्रावस्थायां, जाग्रता - प्रबुद्धदशायां, रात्रौ - निशि, दिवा - दिवसे, चशब्दः समुच्चये, अखिलकर्मसु - अखिलानिसर्वाणि च तानि कर्माणि-क्रियाश्चेति अखिलकर्माणि, तेषु, कायेन - देहेन, मनसा - चित्तेन, वाचा - वाण्या, साम्यं सेव्यम् ।
यः सम्यग् योगस्याऽऽराधनां करोति स सुयोगी । तेन सर्वत्र साम्यं धर्त्तव्यम् । तेन मनसि प्रादुर्भूतेषु भावेषु साम्यं धर्त्तव्यम् । तेन रागयुक्ता भावा न कर्त्तव्याः, नापि द्वेषयुक्ता भावाः कर्त्तव्याः । तेन समभावेन चिन्तनीयम् । तेन रागयुक्तानि वचनानि न भाषितव्यानि, नापि द्वेषयुक्तानि वचनानि भाषितव्यानि । तेन सदा समताभावितान्येव वचनानि वक्तव्यानि । तेन सर्वासु क्रियासु साम्यं धार्यम् । तेन रागप्रेरिता द्वेषप्रेरिता वा क्रिया न कर्त्तव्या । तेन सदा समभावेन प्रवर्त्तनीयम् । इष्टानिष्टेषु सर्वेषु क्षेत्रेषु तेन समता धार्या । इष्टानिष्टेषु सर्वेषु कालेषु तेन समत्वमवलम्बनीयम् । यदि परः सुयोगिनं प्रति शुभाऽशुभं चिन्तयति तीपि सुयोगिना समता धार्या । यदि परः सुयोगिनं प्रति
પધીયાવૃત્તિનો ભાવાનુવાદ - જે સારી રીતે યોગની આરાધના કરે તે યોગી. તેણે બધે સમતા રાખવી. તેણે મનમાં પેદા થયેલા ભાવોમાં સમતા રાખવી. તેણે રાગવાળા ભાવો ન કરવા, વૈષવાળા ભાવો પણ ન કરવા. તેણે સમભાવથી વિચારવું. તેણે રાગવાળા વચનો ન બોલવા, કેષવાળા વચનો પણ ન બોલવા. તેણે હંમેશા સમતાથી ભાવિત વચનો જ બોલવા. તેણે બધી ક્રિયાઓમાં સમતા રાખવી. તેણે હંમેશા સમભાવથી પ્રવર્તવું. ઇષ્ટ-અનિષ્ટ બધા ક્ષેત્રોમાં તેણે સમતા રાખવી. જો બીજો કોઈ અપ્રમત્ત યોગી માટે સારું કે ખરાબ વિચારે તો પણ તેણે સમતા રાખવી.

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350