Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
२
* व्यवहाररत्नम् * क्लादिचान्द्रमासक्रमेणविक्रमार्कप्रवर्त्तितइहोपन्यस्तः । तथाचसिद्धान्त शिरोमणौ - " लंकानगर्यामुदयाच्च भानोस्तस्यैववारेप्रथमं बभूव || मधोः सितादेर्द्दिनमा सपक्षयुगादिकानां युगपत्मवृत्तिः ॥ इति ॥ चान्द्रः प्रभवादिवत्सरोऽपि चतुसितएव प्रवर्तते । वाईस्पत्यस्तुमाबादौ । तयोर्विनियोगोज्योतिर्निबन्धे ब्रह्मसिद्धान्ते
"व्यावहारिकसंज्ञोऽयं कालः स्मृत्यादिकर्मसु । योज्यः सर्वत्रतत्रापि जैवोबा नाम्दोत्तरे” । इति । जैवोवार्हस्पत्यः । अयमेवचान्द्रसरोऽप्युच्यते । यदाह आर्ष्टिषेण: । "स्मरेत्सर्वत्रकर्म्मादौ चान्द्रं संव२.रं सदा । नान्यंयस्माद्वत्सरादौ प्रवृत्तिस्तस्य कीर्त्तिते” ति ।। दीपिकायामपि । " चान्द्रोन्दोमधुशुक्ल प्रतिपादारम्भ " इत्युक्तम् । वाईस्पत्यः प्रभवादिवत्सरोऽयनक्रमेणसौरमाघादौ प्रवर्तते । उत्तरायणं हिदेवानान्दिनम्प्रकरादिषट्क, दक्षिणायनं रातिः कर्कादिषट्कमितिस्थितिः । वस्तुतस्तु । चैत्राद्याइत्युक्तया कृष्णादिमासक्रमेण चैत कृष्णादिक एववर्षारम्भसमयोयुक्तः । ऋतुक्रमस्यापि कृष्णादिमासक्रमेणैव प्रवृत्तेर्मधु माधवोवसन्तः इत्येवं) । स एव ब्राह्मणानामग्न्यामानकाळतया " वसन्ते ब्राह्मणोऽग्नीनादधीते,, तिश्रुतिसिद्धः । वर्षारम्भसमयत्वात् । शुक्लादिमासस्तुबिन्ध्य दक्षिणएवप्रवर्त्तते । ताचो - कं दाक्षिणात्य निबन्धे ( निर्णयसिन्धौ ) त्रिकाण्डमण्डनेन"कृष्णपक्षादिकम्मासं नांगीकुर्वन्ति केचन । येऽपीच्छन्ति न तेषामपीष्टोबिन्ध्यस्य दक्षिणे" || इति ॥ अतएवद्वैतनिणये--दर्शश्राद्धादौ कृष्णादिरेवमासोनिर्द्देश्यः । तस्वतत्ततिथिपुरस्कारेणैव करणात् । इत्युक्तं वाचस्पतिमिश्रैः । अतएव फाल्गुनान्त एवसन्त्सरांन्तोमिथिलायां पांशुळपादिकैर्दा लिकैरपि "अद्य सव्वत्सरोदग्ध" इति होलिकादाहांते प्रयुज्यते ।। व्यावहारिको वर्षक्रमस्तु - यथाराजशासनं प्रवर्तते । युक्तिरपितत्रोपयुज्यते एव । यथाऽश्विन्यांमेषेर विरिति सौर मेषादिसक्रान्तिपसिद्धोवत्सरारम्भः शालिवाहन राजप्रवर्त्तितस्तदीयशकाव्दतयाख्यातः सौरवैशाखादिक्रमेणैव
1
1
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96