Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 94
________________ * व्यवहाररत्नपरिशिष्टम् * ऽधमाः स्युः सितज्ञभौमार्किगुरौचसिद्धाः ॥ शनिभौमगतारिक्ता सर्वसाज्यदायिनीतिचान्यत्र * श्रीपतिसमुच्चये * ताराचन्द्रबलेप्राप्ते दोषाश्चान्येभवन्तिये । तेसर्वेविलयंयान्ति सिंहदृष्ट्वागजाइव ।। * अथाधोमुखनक्षत्राणि ॥ आश्लेषवनियमपित्र्यविशाखयुग्मं पूर्वात्रयं शतभिषाच नवाप्युडूनि । एतान्यधोमुखगणानिशिवानिनित्यंविद्यार्थभूमिखननेषुच भूषितानि ॥ * अथोर्ध्वमुखनक्षत्राणि * उत्तरात्रितयंपुष्यो रो. हिण्यार्दाश्रुतित्रयम् । ऊर्ध्ववक्रोगणोज्ञयो नक्षत्राणिमनीषिभिः ॥१॥ प्रासादच्छत्रगेहानि प्राकारध्वजतोरणम् । राजाभिषेकमश्वंच कुर्यादूर्ध्वमुखेगणे ॥२॥ ® अथ तिर्यङ्मुखनक्षत्राणि छ रेवतीयुगलंज्येष्ठामैत्रो हस्तत्रयोमृगः । पुनर्वसुश्चविज्ञेयो गणस्तिर्यङ्मुखो बुधेः॥ १॥ वृक्षारोपणवाणिज्यं सर्वसिद्धिंचकारयेत् । वारुणानिचयन्त्राणिगमनन्तिर्यगानने ॥ २॥ वास्तु प्रदीपे ॥ अधोमुखैभैर्विदधीतखातंशिलान्यसेदूर्ध्वमुखेचऋक्षे । तिर्यमुखैरिकपाटजातं गृहप्रवेशोमृदुभिर्धवैश्च ॥ १ ॥ अधोमुखैश्चनक्षत्रैःकर्त्तव्यंभूमिशोधनम् । मृदुधुवैःशुभंकुडयमित्युक्तविश्वकर्मणा ।।३ पञ्चकेषुचधिष्ण्येषुस्तम्भमुत्थापयेत्राहि । क्षेत्रसूत्रशिला न्यासंप्राकारादिसमारभेत् ॥ ३ ॥ इति ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 92 93 94 95 96