Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas
View full book text
________________
* व्यवहाररत्नम् *
५१
श्चिमेस्थिता ॥ २६ ॥ पौर्णमास्यान्तु सप्तम्यामुत्तरे चण्डिकादयः । अष्टम्यां नष्टचन्द्रेच महालक्ष्मीः शिवा लये ॥ २७ ॥ योगिनी सुखदा वामे पृष्ठे वांछितदायिनी । दक्षिणेकार्य्यनाशाय संमुखेनिधनप्रदा ॥ २८॥ * अथ वारयोगिनीविचारः प्रागुत्तगग्निनैऋत्ययमपश्चिमवायुषु ॥ ख्यादिषुचवारेषु वर्जयेद्वारयोगिनीम् |२९|| अथ यामार्धयोगिनी विचारः * यत्रोदयगता देवीततोयामार्द्धभुक्तिगा । भ्रमन्ती तेन मार्गेण भवेत्तत्कालयोगिनी ॥ ३०॥ * अथ राहुविचारः तत्रप्रथमंमासविचारः पूर्वादिदिक्षुमार्गाद्यैस्त्रिभि स्त्रिभिरितिक्रमात् । मास कालस्सविज्ञेयो यात्रायां संमुखं त्यजेत् || ३१ ॥ नन्दायां पश्चिमेपूर्वे भद्रायांवनिमारुते । जयायामुत्तरेयाम्ये रिक्तास्वीशाननैर्ऋते ।। ३२ ।। पूर्णायांखेतिथेः कालं वर्जयेत्संमुखं सुधीः ॥ शुक्ले पूर्वादिचत्वारि कृष्णे पश्चिमतश्चतत् ॥ ३३ ॥ * अथ वारराहुविचारः * आदित्येचोत्तरेकालः सो मेवायव्य एवच ॥ भौमेचपश्चिमे सौम्येनैऋत्ये च गुरौयमे ।। ३४ ।) आय्यां भृगुजेज्ञेयः शनौ पूर्वैक्रमाद्भवेत् ॥ वारराहुः सदात्याज्यः प्रवासे वामसंमुखः || ३५ ॥ * अथयामार्द्धराहुविचारः
इन्द्रवासवभेरुद्रे तो
१ अमावास्यायाम् । २ मृत्युदात्री |
Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96