Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 87
________________ ७२ * व्यवहाररत्नपरिशिष्टम् * सर्व दिग्गमनेशस्तः पुष्योविः श्रवणोमृगः । सर्वसिद्धि करः पुष्यो विद्यायाञ्च गुरुर्यथा ॥ अथ तिथिवारयोगेऽमृतयोगः रविचन्द्रमसोः पूर्णा कुजे भद्रागुरौ जया | बुधमन्दगतानन्दा भृगौरिक्तामृताःस्मृताः || * अथामृतसिद्धियोगाः * आदित्यहस्तौगुरुपुष्ययोगा बुधानुराधा शनिगेहिणीच ! सोमेचसौम्यं भृगुरेवतीच भौमाश्विनीचामृत सिद्धियोगाः * अथास्यापवादमाह गृहप्रवेशे यात्रायां विवाहेचयथाक्रमं । भौमाश्विनीं शनौ ब्राह्मं गुरौ पुष्यं विवर्जयेत् ॥ * अथानन्दयोगः अश्विनी सूर्यवारेच सोमेमृगशिरस्तथा । अश्लेषा भौमवारेच बुधेहस्तः प्रकीर्त्तितः ॥ अनुराधागुरोवीर विश्वेदेवास्तु भार्गवे । शतभिषाशने २ चात्पूर्वभाद्रपदां विशिष्यत्यजन्ति । अन्येषुतुगमन मनुमन्यते । वस्तुतस्तु । धनिष्ठादौ शतभिषान्ते मध्येचोत्तरपूर्वयोः । पञ्चपञ्चघटी स्त्याज्यारेवर्तीशकलांत्यजेत् ॥ इति प्रामाणिक वचत्राच्छ्रवणस्य प्रशस्तत्वाभिधानाच्च धनिष्ठादिपञ्चकमेव तृणकाष्ठच्छेदनेऽपिनिषिद्धं तथाच धनिष्ठादिपञ्चकमुपक्रम्य नछिन्द्यास्तृणकाष्ठा निनगच्छेद्दक्षिणांदिशम् । इत्याहुः || १ पुष्यन्त्यस्मिन्नर्था इतिहिपुष्यः । यथाहुः । नयोगयोगंनचलग्रलग्नंनतारकाचंद्रबलंगुरोश्च । नयोगिनीकालविचारराहु रेतानि - विघ्नानिनिहन्तिपुष्यः ॥ सिंहोयथासर्वचतुष्यदानां तथैव पुष्यो बलवानुडूनां । चन्द्रेविरुद्धेऽप्यथगोचरे वासर्वाणिकार्याणिकृतानि पुष्ये ॥ इति ॥ कृतानि निष्पन्नान्येवेतिमयन्तन्धानि ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com 46

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96