Book Title: Vyavahar Ratnam
Author(s): Bhanunath Sharma
Publisher: Kanhaiyalal Krushnadas

View full book text
Previous | Next

Page 21
________________ * व्यबहाररत्नम् * सावनस्तूदयावधिः ॥ नाक्षत्रोभभ्रमादिन्दोश्वान्दस्त्रिंशत्तिः स्मृतः ॥ ९॥ चान्द्रोऽपि द्विविधः प्रोक्तः शुक्लकृष्णानुसारतः ॥ सूर्यचन्द्रान्तरांशैस्तु ज्ञया द्वादशभिस्तिथिः ॥१०॥ अथ तिथीशानाह * वहिर्बह्याम्बिका चैव गणेशोऽहिहो रविः ॥ शिवो दुर्गा यमो १ तथाचनिर्णयसिन्धौ “चन्द्रस्यसवनक्षत्रभोगेननाक्षत्रोमास', इति ॥ अयन्तु सप्तविंशतिदिनात्मकऐव ॥ तावन्मितत्वान्नक्षत्राणाम् ।। २ तथाचनिर्णयसिन्धौ त्रिकाराण्डमण्डनः । “चान्द्रौऽपिशुक्लपक्षादिः कृष्णादितिचद्विधेति । शुक्लादिरमान्तः । कुष्णादिःपूर्णिमान्तोऽनियतदिवसात्मकस्थितिस्तिथीनांवाणवृद्धिरसक्षययोज्योतिर्निबन्धसिद्धत्वात् ॥ ३ द्वादशभिः सूर्यचन्द्रान्तरांशैस्तिथिईयेत्यन्वयः । तथाच गोभिलः । “सूर्याचन्द्रमसोर्यः परः सन्निवर्षः साऽमावास्या" इति । परः सन्निकर्षश्च । उपर्यधोभावापन्नसमसूत्रपातन्यायेन राश्येकांशावच्छेदेन महावस्थानरूपः। तथाचामावास्याघटकतादृशमहावस्थानयुक्तार्कमण्डलाच्नन्द्रमण्डलस्य "अर्काद्विनिसृतःमाची यद्यात्यहरहः शशी ! भागैदशभिस्तत्स्यातिथिश्चान्द्रमसं दिनम्" । इति सूर्यसिद्धान्तोक्तेः । “त्रिंशांशकस्तथाराशेर्भाग इत्यभिधीयते । आदित्याद्विप्रकृष्टस्तु भागंद्वादशकंयदा । चन्द्रमास्याचदाराम! तिथिरित्यभिधीयते” इति विष्णुधर्मोत्तरवचनाद्राशिद्वादशांशद्वादशांस भोगात्मकनिर्गमरूप वियोगेन शुक्लायाः प्रतिपदादि तत्रत्तिथेरुत्पत्तिरित्येवं "सूर्याचन्द्रमसोर्यः परोविप्रकर्षः सा पौर्णमासी" इति गोभिलोक्तेन पौर्णमासीघटकसप्तमराश्यवस्थानरूपपग्मवियोगानन्तरमर्कमण्डल -- प्रवेशाय चन्द्रमण्डलस्य राशिद्वादशांशद्वादशांसमोगात्मकमवेशरूपसन्निकर्षण कृष्णायास्तत्तत्तिथेश्वोत्पत्तिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96