________________
* व्यबहाररत्नम् * सावनस्तूदयावधिः ॥ नाक्षत्रोभभ्रमादिन्दोश्वान्दस्त्रिंशत्तिः स्मृतः ॥ ९॥ चान्द्रोऽपि द्विविधः प्रोक्तः शुक्लकृष्णानुसारतः ॥ सूर्यचन्द्रान्तरांशैस्तु ज्ञया द्वादशभिस्तिथिः ॥१०॥ अथ तिथीशानाह * वहिर्बह्याम्बिका चैव गणेशोऽहिहो रविः ॥ शिवो दुर्गा यमो
१ तथाचनिर्णयसिन्धौ “चन्द्रस्यसवनक्षत्रभोगेननाक्षत्रोमास', इति ॥ अयन्तु सप्तविंशतिदिनात्मकऐव ॥ तावन्मितत्वान्नक्षत्राणाम् ।।
२ तथाचनिर्णयसिन्धौ त्रिकाराण्डमण्डनः । “चान्द्रौऽपिशुक्लपक्षादिः कृष्णादितिचद्विधेति । शुक्लादिरमान्तः । कुष्णादिःपूर्णिमान्तोऽनियतदिवसात्मकस्थितिस्तिथीनांवाणवृद्धिरसक्षययोज्योतिर्निबन्धसिद्धत्वात् ॥
३ द्वादशभिः सूर्यचन्द्रान्तरांशैस्तिथिईयेत्यन्वयः । तथाच गोभिलः । “सूर्याचन्द्रमसोर्यः परः सन्निवर्षः साऽमावास्या" इति । परः सन्निकर्षश्च । उपर्यधोभावापन्नसमसूत्रपातन्यायेन राश्येकांशावच्छेदेन महावस्थानरूपः। तथाचामावास्याघटकतादृशमहावस्थानयुक्तार्कमण्डलाच्नन्द्रमण्डलस्य "अर्काद्विनिसृतःमाची यद्यात्यहरहः शशी ! भागैदशभिस्तत्स्यातिथिश्चान्द्रमसं दिनम्" । इति सूर्यसिद्धान्तोक्तेः । “त्रिंशांशकस्तथाराशेर्भाग इत्यभिधीयते । आदित्याद्विप्रकृष्टस्तु भागंद्वादशकंयदा । चन्द्रमास्याचदाराम! तिथिरित्यभिधीयते” इति विष्णुधर्मोत्तरवचनाद्राशिद्वादशांशद्वादशांस भोगात्मकनिर्गमरूप वियोगेन शुक्लायाः प्रतिपदादि तत्रत्तिथेरुत्पत्तिरित्येवं "सूर्याचन्द्रमसोर्यः परोविप्रकर्षः सा पौर्णमासी" इति गोभिलोक्तेन पौर्णमासीघटकसप्तमराश्यवस्थानरूपपग्मवियोगानन्तरमर्कमण्डल -- प्रवेशाय चन्द्रमण्डलस्य राशिद्वादशांशद्वादशांसमोगात्मकमवेशरूपसन्निकर्षण कृष्णायास्तत्तत्तिथेश्वोत्पत्तिः ॥ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com